________________
द्वादशी षट्विशिका
साम्प्रतं द्वादशी षट्विशिकामाहमूलम् - दसविह वेआवच्चं, विणयं धम्मं च पडु पयासंतो।
वज्जियअकप्पछक्को, छत्तीसगुणो गुरू जयउ ॥१३॥ छाया - दशविधं वैयावृत्त्यं, विनयं धर्मञ्च पटु प्रकाशयन् ।
वर्जिताकल्पषट्कः, षट्विशद्गुणो गुरुर्जयतु ॥१३॥ प्रेमीया वृत्तिः - दशविधं वैयावृत्त्यं विनयं धर्मं - दशविधं वैयावृत्त्यं, दशविधं विनयं दशविधं धर्मं, चः समुच्चये, पटु-सुष्टु, प्रकाशयन् - प्रवदन्, वर्जिताकल्पषट्कः - अकल्पषट्कं वर्जयति स्म, इति षट्त्रिंशद्गुणो गुरुर्जयत्विति पदार्थः।
रहस्यार्थस्त्वेवं ज्ञेयः - व्यापिपति स्मेति व्यापृतः, तस्य भाव इति वैयावृत्त्यं - आचार्यादीनामुपग्रहपरिपालनादि । तद्विषयभेदाद् दशविधम्, तद्यथा - १ आचार्यस्य, २ उपाध्यायस्य, ३ तपस्विनः, ४ शैक्षस्य, ५ ग्लानस्य, ६ साधोः, ७ समनोज्ञस्य, ८ सङ्घस्य, ९ कुलस्य १० गणस्य च । उक्तञ्च प्रवचनसारोद्धारे तद्वत्तौ च - '१ आयरिय २ उवज्झाए ३ तवस्सि ४ सेहे ५ गिलाण ६ साहसं । ७ समणोन्न ८ संघ ९ कुल १० गण वैयावच्चं हवइ दसहा ॥५५७॥ (छाया- १ आचार्य २ उपाध्याय ३ तपस्वि ४ शैक्ष ५ ग्लान ६ साधुषु ।
७ समनोज्ञ ८ सङ्घ ९ कुल १० गणे वैयावृत्त्यं भवति दशधा ॥५५७॥) वृत्तिः - इदानीं वैयावृत्त्यमाह - 'आयरिये'त्यादि, आचारे-ज्ञानाचारादिके पञ्चविधे साधव आचार्याः आचर्यन्ते-सेव्यन्ते इति वा आचार्याः, उप-समीपमागत्य विनेयैरधीयते - पठ्यते येभ्यस्ते उपाध्यायाः, तपो विकृष्टाविकृष्टरूपं विद्यते येषां ते तपस्विनः,