________________
दशविधा सामाचारी
४८५
व्याख्या - अभीत्याभिमुख्येनोत्थानं अभ्युत्थानं उद्यमः 'गुरुपूअत्ति' आर्षत्वाद्गुरुपूजायां गौरवार्हाणामाचार्यग्लानादीनां यथोचिताहारादिसम्प्रदानरूपायाम् । इह च सामान्याभिधानेऽपि अभ्युत्थानं निमन्त्रणारूपमेव ग्राह्यं, अत एव निर्युक्तिकृता अस्य स्थाने निमन्त्रणेवोक्ता “छंदणा य निमंतणत्ति" । तथा ' अच्छणेत्ति' अवस्थाने प्रक्रमादपराचार्यादेः समीपे, उपसम्पदियन्तं कालं युष्मत्पार्श्वे मया वसितव्यमित्येवंरूपा, कार्येति सर्वत्रापि शेषः । एवमुक्तनीत्या 'दुपंच संजुत्तत्ति' द्विपञ्चकसंयुक्ता दशसङ्ख्यायुता सामाचारी प्रवेदिता कथितेति सूत्रत्रयार्थः ||७|| '
अथवा सामाचार्या दशविधत्वमेवं ज्ञेयम् - १ प्रतिलेखना, २ प्रमार्जना, ३ भिक्षा, ४ ईर्यापथिकी, ५ आलोचना, ६ भोजनं, ७ पात्रकधावनं, ८ विचारः, ९ स्थण्डिलं, १० आवश्यकञ्च । यदवाचि श्रीप्रवचनसारोद्धारे तद्वृत्तौ च
-
'पडिलेहणा १ पमज्जण २ भिक्ख ३ रिया ४ लोग ५ भुंजणा ६ चेव । पत्तगधुवण ७ वियारा ८ थंडिल ९ आवस्सयाईया १० ॥ ७६८ ॥
(छाया - प्रतिलेखना १ प्रमार्जना २ भिक्षा ३ ईर्या ४ आलोचना ५ भोजनं ६ चैव । पात्रकधावनं ७ विचारः ८ स्थण्डिलं ९ आवश्यकादिका १० ॥७६८||
वृत्तिः - पूर्वाह्णेऽपराह्णे च वस्त्रपात्रादीनां प्रत्युपेक्षणा विधेया १ तथा प्रमार्जना वसते: पूर्वाह्णेऽपराह्णे च कर्त्तव्या २ तथा कृतकायिकादिव्यापाराः पात्राणि गृहीत्वा आवश्यकीकरणपूर्वं वसतेर्निर्गत्याहारादिषु मूर्च्छामकुर्वन्तः पिण्डग्रहणैषणायां सम्यगुपयुक्ताः साधवो 'भिक्ख' त्ति भिक्षां गृह्णन्ति ३ तथा भिक्षाग्रहणानन्तरं नैषेधिकीपूर्वं वसतौ प्रविश्य 'नमः क्षमाश्रमणेभ्य' इत्येवंरूपं वाचिकं नमस्कारमुच्चार्य योग्यदेशं चक्षुः प्रत्युपेक्षणापुरस्सरं रजोहरणेन प्रमृज्य ‘ईरिय' त्ति ईर्यापथिकीं प्रतिक्रामन्ति ४ कायोत्सर्गे च भिक्षाभ्रमणभावन निर्गमनादारभ्य प्रवेशपर्यन्तान् पुरः कर्मादीनतिचारान् गुरुनिवेदनार्थं चिन्तयन्ति, पारयित्वा च चतुर्विंशतिस्तवं पठन्तीति, तथा च चतुर्विंशतिस्तवपाठानन्तरं भावतश्चारित्रपरिणाममापन्नाः सन्तो गुरोर्गुरुसम्मतस्य वा ज्येष्ठार्यस्य पुरतो यदोदनादि येन प्रकारेण करोटिकाप्रभृतिभाजनादिना गृहीतं तत्सर्वं तथैव प्रवचनोक्तेन विधिना 'आलोय' त्ति आलोचयन्ति ५ निवेदयन्तीत्यर्थः, तदनन्तरं दुरालोचितभक्तपानयोर्निमित्तमेषणानेषणयोर्वा निमित्तं कायोत्सर्गं कुर्वन्ति, 'इच्छामि पडिक्कमिउं गोचरचरियाए भिक्खायरियाए जाव तस्स मिच्छामि दुक्कडं, तस्स उत्तरीकरणेणं जाव वोसिरामि ।' त्ति कायोत्सर्गं कुर्वन्ति च तत्र नमस्कारं 'जइ मे अणुग्गहं कुज्जा साहू' इत्यादि वा चिन्तयेत्, यदुक्तमोघनिर्युक्तौ -