________________
चतुर्थे कृत्प्रत्ययाध्याये प्रथमः सिद्धिपादः
[रूपसिद्धि]
१. सत्यङ्कारः। सत्य + कृ + अण् + सि। सत्यं करोति सत्यस्य कारो वा। 'सत्य' शब्द के उपपद में रहने पर 'डु कृञ् करणे' (७।७) धातु से “कर्मण्यण्' (४।३।१) सूत्र द्वारा 'अण्' प्रत्यय, वृद्धि आर्,प्रकृत सूत्र से मकारागम, अनुस्वार, पञ्चम वर्णादेश, लिङ्गसंज्ञा तथा विभक्तिकार्य।
२. अगदङ्कारः। अगद + कृ + अण् + सि। अगदं करोति अगदस्य कारो वा। 'अगद' शब्द के उपपद में रहने पर 'कृ' धातु से अण् प्रत्यय आदि कार्य पूर्ववत्।
३. अस्तुङ्कारः। अस्तु + कृ + अण् + सि। अस्तु करोति। 'अस्तु' शब्द के उपपद में रहने पर 'कृ' धातु से अण् प्रत्यय आदि कार्य पूर्ववत्।।८७८।
८७९. गिलेऽगिलस्य [४।१।२४] [सूत्रार्थ
'गिल' शब्द के परे रहते पूर्ववर्ती 'गिल' शब्द से भित्र शब्द के अन्त में मकारागम होता है ।।८७९।
[दु० वृ०]
गिलादन्यस्य गिलशब्दे परे मोऽन्तो भवति । गिरते: क: प्रत्ययः । तिमेर्गिल: तिमिङ्गिलः । एवं रिपुङ्गिलः । अगिलस्येति किम् ? गिलगिल: । 'तिमिङ्गिलगिलोऽप्यस्ति तगिलोऽप्यस्ति राघवः' ।।८७९।
[दु० टी०]
गिले० । एकारादकारलोपे सति तुल्येऽपि निर्देशेऽगिलस्येति नञ् सम्भाव्यते। बहूदाहरणसम्भवादगिलस्येति तदन्तविधिः। केवलस्य व्यपदेशिवद्भावात् प्रतिषेधः।।८७९।
[वि० प०]
गिले० । गिरते: कप्रत्यय इति । नाम्युपधेत्यादिनेत्यर्थः । 'वा स्वरे" (३।६।९९) इति लत्वम् । अत्रापि तदन्तविधिना गिलान्तस्येति वेदितव्यम् । केवलस्यापि व्यपदेशिवद्भावादित्याह - तिमिङ्गिलेत्यादि । तिमिङ्गिलस्य गिल: तिमिङ्गिलगिलः। 'अस्ति मत्स्यस्तिमि म शतयोजनविस्तृतः' इति पूर्वार्द्धम् ।।८७९।
[क० च०]
गिले० । शतयोजनविस्तृत इत्येव पाठः, न विस्तर इति । 'विस्तारो विग्रहो व्यासः स च शब्दस्य विस्तरः' इति शासनादर्थासम्भवात् । ‘राघवः' इति सविसर्गपाठे मत्स्यान्तरं मत्स्यस्य विशेषणं तगिलो राघव इत्यर्थः । निर्विसर्गपाठे तु सम्बोधनम् ।।८७९।