________________
२२४
कातन्त्रव्याकरणम्
[दु० टी०]
प्रस्र०। साधुकरणमित्यादि । अथवा नहि शिल्पी साधुकरणशीलः, कार्यापेक्षत्वादिति भावः। इह पूर्वे हि वैयाकरणाः वुण् सकर्मकेभ्यस्तृजादयो वर्तमाने इति पठन्ति । इह तूभयमध्ये तदनिवर्तकत्वात् तद्व्यभिचारीति निरस्यति । तथा ह्यासका:, सावका: इति वुण कर्तरि दृश्यते । यथा 'वेदाध्यायः' इत्यण् वर्तमाने, तथा भूतेऽपि- चर्चा पवितवान् चर्चापावः, शयनीयपाव इति ।।१००५।
।। इत्याचार्यदुर्गसिंहप्रणीतायां दौर्गसिंह्यां कातन्त्रवृत्तिटीकायां चतुर्थे कृदध्याये द्वितीयो
धातुपादः समाप्तः।।
[वि० प०]
पु०। साधुकरणमित्यादि । साधु कुर्वाण एव लोके शिल्पीत्युच्यते। ततः "शिल्पिनि वुष्" (४।२।६१) इत्यनेनैव सिध्यति, किन्तु वुषः सानुबन्धत्वात् स्त्रियामीप्रत्यय: स्यात् । अथ नदादेराकृतिगणत्वादेषामीन भवति चेत् , तर्हि प्रपञ्चार्थमेवेति ।।१००५।
।।इति श्रीमत्रिलोचनदासकृतायां कातन्त्रवृत्तिपञ्जिकायां चतुर्थे कृदध्याये द्वितीयो
धातुपादः समाप्तः ।।
[समीक्षा
'साधुप्रवकः, लवक:' आदि शब्दरूपों के सिद्ध्यर्थ कातन्त्रकार ने साक्षात् ‘अक' प्रत्यय किया है, परन्तु पाणिनि ने 'वुन्' प्रत्यय तथा 'वु' को अक आदेश किया है। पाणिनि का सूत्र है – “सृल्व: समभिहारे वुन्' (अ० ३।१।१४९)। इस प्रकार पाणिनीय प्रक्रिया में गौरव तथा कातन्त्रीय प्रक्रिया में लाघव कहा जा सकता है। कातन्त्र में 'जु' धातु का अधिक पाठ भी उसकी विशेषता कही जा सकती है।
[विशेष वचन] १. साधुकरणं शिल्पमेव (दु० वृ०) । २. इह पूर्वे हि वैयाकरणा वुण् सकर्मकेभ्यस्तृजादयो वर्तमाने इति पठन्ति (दु० टी०) । ३. ..... तर्हि प्रपञ्चार्थमेवेति (वि० प०) ।