________________
२८२
कातन्त्रव्याकरणम्
[दु० टी०]
पाणिः । शिल्पं विज्ञानं तयुक्तस्य कर्तुस्तस्मिन् हन्तेष्टगन्त्यस्वरादिलोपो घत्वं च निपात्यते ।।१०६१।
[समीक्षा]
'पाणिघ-ताडघ' शब्दों के सिद्ध्यर्थ दोनों ही आचार्यों ने निपातनविधि का आश्रय लिया है। पाणिनि का सूत्र है -- “पाणिघताडघौ शिल्पिनि '' (अ० ३।२।५)। अत: उभयत्र समानता ही है।
[रूपसिद्धि]
१. पाणिघः। पाणि + हन् + टक् + सि । पाणिभ्यां पाणौ वा हन्ति । ‘पाणि' शब्द के उपपद में रहने पर 'हन् हिंसागत्योः' (२।४) धातु से निपातनद्वारा ‘टक्' प्रत्यय, धातुगत 'अन्' का लोप, हकार को घकारादेश तथा विभक्तिकार्य ।।
२. ताडघः। ताड + हन् + टक् + सि । ताडं हन्ति । 'ताड' के उपपद में रहने पर ‘हन्' धातु से 'टक्' प्रत्यय आदि प्रक्रिया पूर्ववत् ।।१०६१। १०६२. नग्नपलितप्रियान्धस्थूलसुभगाढ्येष्वभूततद्भावेषु
कृञः ख्युट करणे [४।३।५७] [सूत्रार्थ
अभूततद्भाव अर्थ में वर्तमान 'नग्न-पलित-प्रिय-अन्ध-स्थूल-सुभग-आढ्य' शब्दों के उपपद में रहने पर करण कारक में 'डु कृञ् करणे' (७।७) धातु से ‘ख्युट' प्रत्यय होता है ।।१०६२।
[दु० वृ०]
अभूततद्भावे वर्तमानेषु नग्नादिषूपपदेषु कृञः ख्युड् भवति करणे कारके । अनग्नो नग्न: क्रियतेऽनेनेति नग्नङ्करणं द्यूतम् । एवं पलितङ्करणं तैलम् । प्रियङ्करणं शीलम् । अन्धङ्करण: शोकः । स्थूलङ्करणं दधि । सुभगङ्करणं रूपम् । आढ्यङ्करणं वित्तम् । अनग्नङ्करणमित्यादि तदन्तविधिना । अभूततद्भाव इति किम् ?. आढ्यं करोति । तैलेनाभ्यञ्जयतीत्यर्थः । उत्पादार्थेऽप्यभूततद्भावस्याविवक्षितत्वात् । व्यक्तेर्विवक्षितत्वात् च्यन्तेषु न भवति । उत्तरत्राप्येवम् – नग्नीकरोत्यनेनेति युडपि नैवाविशेषात् ॥१०६२।
[दु० टी०]
नग्न० । अनग्नङ्करणमित्यादि । अभयङ्करवदिहापि तदन्तविधिरिष्यते इत्यर्थः । अन्यत्र तूपपदं न विशेषणमेवेति । तथा च ज्ञापितम् - अभूततद्भाव इत्यादि । अथवा आढ्यं करोति तैलेन घृतं तु न ददातीति । ननु करोतिरयमभूतप्रादुर्भावार्थस्ततोऽभूततद्भावान्न भिद्यते, तथा आढ्य एव किञ्चित् क्रियते दण्डनादिषु (अभ्यञ्जनादिषु)