SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ २८२ कातन्त्रव्याकरणम् [दु० टी०] पाणिः । शिल्पं विज्ञानं तयुक्तस्य कर्तुस्तस्मिन् हन्तेष्टगन्त्यस्वरादिलोपो घत्वं च निपात्यते ।।१०६१। [समीक्षा] 'पाणिघ-ताडघ' शब्दों के सिद्ध्यर्थ दोनों ही आचार्यों ने निपातनविधि का आश्रय लिया है। पाणिनि का सूत्र है -- “पाणिघताडघौ शिल्पिनि '' (अ० ३।२।५)। अत: उभयत्र समानता ही है। [रूपसिद्धि] १. पाणिघः। पाणि + हन् + टक् + सि । पाणिभ्यां पाणौ वा हन्ति । ‘पाणि' शब्द के उपपद में रहने पर 'हन् हिंसागत्योः' (२।४) धातु से निपातनद्वारा ‘टक्' प्रत्यय, धातुगत 'अन्' का लोप, हकार को घकारादेश तथा विभक्तिकार्य ।। २. ताडघः। ताड + हन् + टक् + सि । ताडं हन्ति । 'ताड' के उपपद में रहने पर ‘हन्' धातु से 'टक्' प्रत्यय आदि प्रक्रिया पूर्ववत् ।।१०६१। १०६२. नग्नपलितप्रियान्धस्थूलसुभगाढ्येष्वभूततद्भावेषु कृञः ख्युट करणे [४।३।५७] [सूत्रार्थ अभूततद्भाव अर्थ में वर्तमान 'नग्न-पलित-प्रिय-अन्ध-स्थूल-सुभग-आढ्य' शब्दों के उपपद में रहने पर करण कारक में 'डु कृञ् करणे' (७।७) धातु से ‘ख्युट' प्रत्यय होता है ।।१०६२। [दु० वृ०] अभूततद्भावे वर्तमानेषु नग्नादिषूपपदेषु कृञः ख्युड् भवति करणे कारके । अनग्नो नग्न: क्रियतेऽनेनेति नग्नङ्करणं द्यूतम् । एवं पलितङ्करणं तैलम् । प्रियङ्करणं शीलम् । अन्धङ्करण: शोकः । स्थूलङ्करणं दधि । सुभगङ्करणं रूपम् । आढ्यङ्करणं वित्तम् । अनग्नङ्करणमित्यादि तदन्तविधिना । अभूततद्भाव इति किम् ?. आढ्यं करोति । तैलेनाभ्यञ्जयतीत्यर्थः । उत्पादार्थेऽप्यभूततद्भावस्याविवक्षितत्वात् । व्यक्तेर्विवक्षितत्वात् च्यन्तेषु न भवति । उत्तरत्राप्येवम् – नग्नीकरोत्यनेनेति युडपि नैवाविशेषात् ॥१०६२। [दु० टी०] नग्न० । अनग्नङ्करणमित्यादि । अभयङ्करवदिहापि तदन्तविधिरिष्यते इत्यर्थः । अन्यत्र तूपपदं न विशेषणमेवेति । तथा च ज्ञापितम् - अभूततद्भाव इत्यादि । अथवा आढ्यं करोति तैलेन घृतं तु न ददातीति । ननु करोतिरयमभूतप्रादुर्भावार्थस्ततोऽभूततद्भावान्न भिद्यते, तथा आढ्य एव किञ्चित् क्रियते दण्डनादिषु (अभ्यञ्जनादिषु)
SR No.023091
Book TitleKatantra Vyakaranam Part 04
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year2005
Total Pages824
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy