________________
२८३
चतुर्थे कृत्प्रत्ययाध्याये तृतीयः कर्मादिपादः च करोतेर्वृत्तिरिति । एवमपि सर्ववस्तूनामात्मनो हेतुत्वादभूतप्रादुर्भाव औज्ज्वल्यादिसम्बन्धो बाहिरङ्गस्तथा वक्ष्यमाणेऽपि भवति । यदा सत्तार्थ स्तदाप्यो वम् , नैवं सामान्यविशेषयोरैक्याभावाच्च व्यर्थोऽभूततद्भाव:, अवस्थावतोऽवस्थान्तरेणाविद्यमानस्य तदात्मना भाव उच्यते अभूतप्रादुर्भावस्त्वनाश्रितपूर्वावस्थेऽपि कार्ये भवतीत्याह - उत्पादार्थेऽपीति । व्यक्तेरित्यादि । अवर्णस्य च्वावीत्वे व्यक्तयन्तरत्वं मन्यते । यद्येवम् अनाढ्य आढयः क्रियतेऽनेनेति आढ्यङ्करणं न स्यात् । “लिङ्गग्रहणे लिङ्गविशिष्टस्यापि ग्रहणम्' (का० परि० १७) इति जातार्थत्वात्। सत्यम्, स्त्रीलिङ्गस्याविवर्तव। अथवा व्यन्तस्य शब्दान्तरत्वाद् अन्यव्यक्तित्वम्, न हि गोग्रहणे महिषस्यापि ग्रहणम्। शृङ्गमस्तीति लिङ्गविशेषस्य ग्रहणं विवक्षितायां व्यक्ती व्यक्त्यन्तरोच्छेदेन जातिर्न विहन्यते। अथ सत्यप्यर्थभेदे च्विलोपादेकत्वाध्यवसाय: स एवायमिति। तदाविवक्षितायां प्रकृतौ मकारागमकृतो विशेषश्च्व्यन्तेषु युटा नास्ति विशेष: इत्याढ्यीकरणमिति भवितव्यम् , तर्हि च्च्यन्तेष्वपि खिष्णखको स्याताम् । तथा च वक्ष्यति --आढ्यीभवितेत्यादि। रूढिशब्दप्रकारा हि ताच्छीलिकाः। प्रकारशब्द: सादृश्ये । यथा परिनिष्ठितस्यार्थस्याभिधातारो रूढिशब्दास्तथा ताच्छीलिका अपीत्यर्थः। तेन भ्राज्यलंकृञ्भूसहीत्यादिनेष्णुच् नास्ति शृकमगमहनवृषभूस्थेत्यादिना, अत उकञ् नास्ति । न हि भवति 'प्रदेवकः, प्रजागरूकः' इति । कथन्तर्हि 'प्रभावुकः, अपलाषुकः, आगामुकः, प्रस्थायुकः' इति व्युत्पत्त्यङ्गप्रत्ययाः केचित्ताच्छीलिका इति तत्रोपसर्गयोगो दृश्यते तथा रूढिशब्दानां च व्याघ्र आकाश इति। च्च्यन्तस्याभूततद्भावोऽर्थस्ताच्छीलिकत्वं हि स्वभावस्तस्मानित्यानित्ययोः परस्परमनभिसम्बन्धादभिधानमेवाश्रय इति । च्च्यन्तेषु तृचो विषयता युडपि नैवाविशेषादिति नञ् प्रस्तुतेन ख्युटा सम्बन्धनीयः, न ख्युडेव भवति, युडपि भवति अविशेषादिति भाष्यकारीयं मतम्। आद्यपक्षे त्विह व्यक्तिवशात् ख्युट् तावन्न भवति, रूपस्याविशेषादित्यर्थः। पदकारमतं चैतत् ।।१०६२।
[वि० प०]
नग्न० । नग्नमित्यादि० । अभयङ्करवदत्रापि तदन्तविधिरिष्यते इति भावः । अन्यस्मिंस्तूपपदविधौ तदन्तता नास्ति । तदाद्याद्यन्तानन्तेत्यादावनन्तग्रहणाद् विज्ञायते, अन्यथा अन्तग्रहणेनैव तदन्तविधिना सिद्धमिति भावः । अभूततद्भाव इत्यादि । धातूनामनेकार्थत्वात् करोतिरत्राभ्यञ्जने वर्तते । ननु तत्रापि करोतेरभूतप्रादुर्भावार्थत्वादभ्यङ्गः पूर्वमसन्नेव क्रियते अभूततद्भावोऽस्त्येव । नहि अभूतप्रादुर्भावादन्योऽभूततद्भाव इति, तदयुक्तम् । विशिष्टो हि अभूततद्भावो नाभूतप्रादुर्भावमात्रम् , तथाहि अभूतस्याजातस्य तदात्मना भावोऽभूततद्भाव इति आश्रितपूर्वावस्थस्य कार्यस्य भाव उच्यते । अभूतप्रादुर्भावस्तु अनाश्रितपूर्वावस्थस्य कार्यस्येत्याह – उत्पादेत्यादि । उत्पादोऽभूतप्रादुर्भावस्तस्मिन् सत्यप्यविवक्षाऽभूततद्भावस्य प्रकृतेरनाश्रयणात् । प्रकृतिः कार्यस्य पूर्वावस्थोच्यते ।
व्यक्तेरित्यादि। च्वावीत्वे व्यक्त्यन्तरत्वमित्यर्थः। यद्येवम्, अनग्ना नग्ना क्रियतेऽनेनेति