________________
२८४
कातन्त्रव्याकरणम्
नग्नङ्करणमित्यपि न स्यात्। नच लिङ्गग्रहणे लिङ्गविशिष्टस्यापि ग्रहणमिति युक्तम् , जातावस्याव्यापारात्? सत्यम् , इह सामान्येन प्रत्ययः, स्त्रीत्वप्रतिपत्तिस्तु तत्प्रकरणात्। एतच्चावश्यकमभ्युपेयम्। अन्यथा स्त्र्याकारस्य ह्रस्वत्वे विशेषाभावः। यदि पुन: ख्युडभावे युड् भवेत् तदा ख्युटः प्रतिषेधोऽनर्थक: स्यात् , विशेषाभावात्। मकारागमकृतो हि विशेषः, न चासो च्यन्तस्याव्ययस्य दीर्घान्तरस्यास्तीत्याह – युडपीत्यादि । अन्ये पुनर्नग्नीकरणमिति मतान्तरमवलोकयन्तो युडपि नैव, अविशेषादित्यन्यथा व्याचक्षते - ख्युडेव भवतीति, किन्तु न युडपि, विशेषाभावादिति ।।१०६२।
[क० च०]
नग्न०। अभूतस्येति पञ्जिका। अभूतस्याजातस्य शुक्लादेः किम्भूतस्य तदात्मना तत्स्वरूपेण पूर्वावस्थायुक्तप्रकृतिरूपेण वस्त्वन्तराविशिष्टस्याभाव उत्पत्तिरिति विशेषणे तृतीया। एतेनायमर्थ:- यत्र प्रकृतेराश्रयणं तत्राभूततद्भावः। यत्र तन्नास्ति तत्राभूतप्रादुर्भाव इति, तर्हि कथमाश्रितपूर्वावस्थाश्रयणं युक्तं चेद् आश्रिता पूर्वावस्थावती प्रकृतिर्येनेति पूर्वावस्थशब्देन प्रकृतिरुच्यते। हेमकरसङ्गत्या प्रकृतिरिति। नन् प्रकृतिशब्देन विकारयुक्तद्रव्यमुच्यते, तत् कथं पूर्वावस्था इत्युक्तमित्याह – नन्विति हेमः।।१०६२।
[समीक्षा]
'नग्नङ्करणम्, प्रियङ्करणम्' इत्यादि शब्दरूपों के सिद्ध्यर्थ दोनों ही व्याकरणों में ख्युट (पा०-ख्युन) प्रत्यय किया गया है । पाणिनि का सूत्र है - "आढ्यसुभगस्थूलपलितनग्नान्धप्रियेषु च्व्यर्थेष्वच्ची कृञ: करणे ख्युन्' (अ० ३।२।५६)। 'ट्-न्' अनुबन्धभेद को छोड़कर अन्य तो प्राय: उभयत्र समानता ही है ।
[विशेष वचन] १. पदकारमतं चैतत् (दु० टी०) । २. प्रकृति: कार्यस्य पूर्वावस्थोच्यते (वि० प०) । [रूपसिद्धि]
१. नग्नङ्करणं द्यूतम् । नग्न + कृ + ख्युट + सि । अनग्नो नग्नः क्रियतेऽनेन। 'नग्न' शब्द के उपपद में रहने पर 'डु कृञ् करणे' (७।७) धातु से प्रकृत सूत्र द्वारा 'ख्युट' प्रत्यय, “युवूझामनाकान्ताः' (४।६।५४) से 'य' को 'अन' आदेश, ऋकार को गुण, मकारागम, अनुस्वार, वर्गान्त आदेश तथा विभक्तिकार्य ।
२. पलितङ्करणं तैलम् । पलित + कृ + ख्युट + सि । अपलित: पलितः क्रियतेऽनेन । 'पलित' शब्द के उपपद में रहने पर 'कृ' धातु से 'ख्युट' प्रत्यय आदि कार्य पूर्ववत् ।
३. प्रियङ्करणं शीलम् । प्रिय + कृ + ख्युट + सि । प्रियं क्रियतेऽनेन । 'प्रिय' शब्द के उपपद में रहने पर 'कृ' धातु से 'ख्युट' प्रत्यय आदि कार्य पूर्ववत् ।
४. अन्यङ्करणः शोकः । अन्ध + कृ + ख्युट + सि । अनन्धः अन्धः