________________
४५०
कातन्त्रव्याकरणम्
[रूपसिद्धि]
१. प्रयाहः, प्रग्रहः। प्र - ग्रह - घञ् - सि। 'प्र' के उपपद में रहने पर 'ग्रह' धातु से वैकल्पिक 'घञ्' प्रत्यय, इज्वद्भाव, उपधादीर्घ तथा विभक्तिकार्य। पक्ष में अल् प्रत्यय होने पर 'प्रग्रह:' शब्दरूप।।१२०१।
१२० २. वणिजां च [४।५।३०] [सूत्रार्थ
वणिक्सम्बन्धी तुलासूत्र अर्थ में 'प्र' उपसर्ग के उपपद में रहने पर ‘ग्रह' धातु से वैकल्पिक ‘घञ्' प्रत्यय होता है।।१२०२।
[दु० वृ०]
वणिजां सम्बन्धिनि तुलासूत्रेऽर्थे प्र उपपदे ग्रहेर्घञ् भवति वा। तुलाप्रग्राहेण चरति, तुलाप्रग्रहेण वा चरति वणिक्।।१२०२।
[दु० टी०]
वणि०। वणिजामिति सम्बन्धे षष्ठी सम्बन्धिनामाक्षिपति। तच्च विशिष्टमेवाभिधानादित्याह—तुलासूत्रेऽर्थे इति। प्रगृह्यतेऽनेनेति प्रग्राहः, तुलया प्रग्राहस्तुलाप्रवाहः, करणे चेयं तृतीया, न चात्र वणिजस्तन्त्रं किन्तर्हि तुलासूत्रस्य प्रायेण वणिजां विषय इति तैरुपलक्षणं क्रियते तेन तुलाप्रग्राहेण चरति। ब्राह्मणस्तुलाभिज्ञतया प्रवर्तते इत्यर्थः। उपलक्षणमप्यभिधानाद् यथा पूर्वसूत्रे रश्मी रज्जुरेवाभिधीयते न चन्द्रादीनां किरण इति।।१२०२।
[वि०प०]
वणिजाम्०। सम्बन्धे षष्ठीयम् । प्रायेण वणिक्सम्बन्धितुलासूत्रमेवान्तरङ्गम् । अतस्तदेव लक्ष्यते वणिजश्चोपलक्षणत्वादतन्त्रम् । अतस्तुलाप्रमाहेण चरति ब्राह्मण: इत्यपि भवति, तुलाभिज्ञतया वर्तते इत्यर्थः। प्रगृह्यते येन स प्रग्राहः, तुलायाः प्रग्राहस्तुलाप्रग्राहस्तुलाग्रहणसूत्रमित्यर्थः।।१२०२।
[समीक्षा _ 'प्रग्राहः, प्रग्रहः' शब्दरूपों की सिद्धि दोनों ही आचार्यों ने वैकल्पिक 'घब' प्रत्यय द्वारा की है। पाणिनि का सूत्र है— “प्रे वणिजाम्' (३।३।५२)। अत: उभयत्र पूर्ण समानता है।
[रूपसिद्धि]
१. तुलाप्रमाहेण चरति तुलाप्रग्रहेण वा। प्र + ग्रह + घञ् + टा। 'प्र' उपसर्ग के उपपद में रहने पर 'ग्रह उपादाने' (८।१४) धातु से प्रकृत सूत्र द्वारा वैकल्पिक 'घञ्' प्रत्यय, इज्वद्भाव, उपधादीर्घ तथा विभक्तिकार्य। पक्ष में 'अल' प्रत्यय होने पर 'प्रग्रहेण' शब्दरूप सिद्ध होता है।।१२०२।