________________
चतुर्थे कृत्प्रत्ययाध्याये षष्ठः क्त्वादिपादः
५५७ पूर्वकालतामभिदधातीत्यर्थः। एतेन समानार्थत्वमेव धातुद्वयस्येति दर्शितम्। केचित्तु अनुप्रयोगः पूर्वकालतां चाभिदधात्येवेति भित्रक्रमेण योजयन्ति। तदा न केवलमेककर्तृकत्वं पूर्वकालतां चेति चार्थो विवक्षणीय इति। विवक्षयेति कषादिधातुः प्रारम्भेऽपि वर्तते तस्यान्तमपेक्ष्य पूर्वता युज्यते। एवमनुप्रयोगस्यापति।।१३१५।
[समीक्षा] ___ 'निमूलकाष कषति' इत्यादि शब्दों के सिद्ध्यर्थ अनुप्रयोग का विधान समानरूप में दोनों ही आचार्यों ने किया है। पाणिनि का सूत्र है- “कषादिषु यथाविध्यनुप्रयोगः' (अ० ३।४।४६)। अत: उभयत्र सभी प्रकार की समानता ही है।
[रूपसिद्धि]
१. निमूलका कषति। निमूल +कष्+णम् +सि। 'निमूल' शब्द के उपपद में रहने पर 'कष हिंसार्थ:' (१।२२४) धातु से “निमूलसमूलयोः कषः'' (४।६।१६) सूत्र द्वारा ‘णम्' प्रत्यय, उपधादीर्घ तथा विभक्तिकार्य। इसके बाद प्रकृत सूत्र के नियमानुसार 'कष्' धातु का अनुप्रयोग।।१३१५।
१३१६. तृतीयायामुपदंशेः [४।६।३१] [सूत्रार्थ
तृतीयान्त के उपपद में रहने पर 'उप' पूर्वक ‘दंश्' धातु से णम् प्रत्यय होता है।।१३१६।
[दु०वृ०]
तृतीयान्ते उपपदे उपपूर्वाद् दंशेर्णम् भवति। मूलकेनोपदंशं भुङ्क्ते, मूलकोपदंशं भुङ्क्ते। मूलकादिकरणतया भुजिना युक्तमपि उपदंशिना व्याप्तमित्युपपदं स्यात्। वाऽधिकाराद् मूलकेनोपदश्य भुङ्क्ते।। १३१६।
[दु० टी०]
तृतीया०। नहि भुजिना सम्बन्धे सति उपदंशिना संबन्धो निवर्तते विरोधाभावात्। यधुपपदानां धात्वर्थमात्रस्य सम्बन्धो गृह्यते न यथाव्यपदिष्टक्रमेण, अन्यथा “स्वार्थे पुषः” (४।६।२३) इत्यत्र स्वार्थवाचिन उपपदस्य धातुं प्रत्यात्मीयादिक्रमतया नोपपदत्वं स्यात्, यदि तर्हि दंशिं प्रति मूलकादेः कर्मतैवोपपद्यते न करणता ापदंशेरित्यास्तां कर्मणीति वर्तिष्यते लघुस्वभावं प्रति भवति, तृतीयादिग्रहणं तु उत्तरत्र क्रियताम्, नैवम्। प्रधानक्रियां प्रति करणत्वाभावे तृतीयां प्रति करणत्वम् इष्यते वाक्यसमासपक्षे।।१३१६।
[वि०प०]
तृतीया०। अथ मूलकादे: करणत्वाद् भुजिना सह योगो नोपदंशिनेति कथं तस्य तत् प्रति तस्योपपदत्वं येनोपपदसमास: पाक्षिकः स्यादित्याह- मूलकादीति। नहि