________________
६५७
चतुर्थे कृदध्याये षष्ठः क्त्वादिपादः ।। इत्याचार्यदुर्गसिंहकृतायां दौगसिंह्यां वृत्तौ चतुर्थे कत्प्रत्ययाध्याये षष्ठः क्वाप्रत्ययादिपादः समाप्तः।।
[वि०प०]
अवर्णात्। 'शव गतौ, धावु गतिशुद्ध्योः ' (१।२३८,५७०)। "च्छ्वोः शूटौ पञ्चमे च''(४।१।५६) इत्यूट। वृद्धौ सत्याम् "ओकारे औ औकारे च'' (१।२।७) इत्यौत्वम्। अधातोर्दर्शयति- अवनम औरिति। श्रिव्यवीत्यादिनोट। पटस्योति: पटौतिः। एवं जनपूर्वाद् अवते: क्विपि कृतेऽपीति। ननु अवर्णेनोटो वृद्धिरित्युच्यताम्, अवर्णेन सह वृद्धिरूटो भविष्यति। एवं च सति "ओकारे औ औकारे च" (१।२।७) इति प्रक्रियागौरवं च निरस्तं भवति? सत्यम्, अवर्णादिति पञ्चमीनिर्देशो वर्णमात्रप्रतिपत्त्यर्थः। अन्यथा धातुप्रस्तावाद् धातोरवर्णात् स्यादिति। अत एव धातोरधातोर्वेत्युक्तमेवेति।।१४०१ । ।।इत्याचार्यश्रीमत्रिलोचनदासकृतायां कातन्त्रवृत्तिपञ्चिकायां चतुर्थे कृत्प्रत्ययाध्याये षष्ठः
क्त्वाप्रत्ययादिपादः समाप्तः।।
[क० त०]
अव०। ऊट इति किमिति, उत इत्यास्ताम् इत्याशङ्कार्थः। टीकायाम् अवर्णादिति वर्णग्रहणान्मन्यते इति, अन्यथा आत इति कुर्यादिति भावः। उपपदविधाविति। सप्तम्युक्तमुपपदमित्यर्थः। गमकत्वात् सम्बन्ध इत्येतद् वृत्तौ मङ्गलार्थमिति सापेक्षत्वेऽपि समास इति बोध्यम।।१४०१। ।।इत्याचार्यश्रीरघुनन्दनभट्टाचार्यशिरोमणिकृते कलापतत्त्वार्णवे चतुर्थे कृत्प्रत्ययाध्याये षष्ठः
क्त्वाप्रत्ययादिपादः समाप्तः।।
[समीक्षा]
'पटौतिः, जनौः, प्रष्ठौहः' इत्यादि शब्दरूपों के सिद्ध्यर्थ दोनों ही व्याकरणों में ऊट (पाणिनि-ऊठ) के परे रहते वृद्धिविधान किया गया है। अन्तर यह है कि पाणिनीय व्याकरण में प्रक्रिया के अनुसार अवर्ण तथा ऊ दोनों के स्थान में वृद्धि एकादेश होता है, जबकि कातन्त्रकार केवल वकारस्थानिक ऊट को ही वृद्ध्यादेश करते हैं। पाणिनि का सूत्र है- "एत्येधत्यूठस्' (अ०६।१।८९)। प्रक्रियाभेद के अतिरिक्त तो सामान्यतया उभयत्र समानता ही कही जा सकती है।
१. सूत्रस्यास्य टीकाग्रन्थो मया नोपलब्धः।