________________
चतुर्थे कृदध्याये षष्ठः क्त्वादिपादः
६५५ [दु०वृ०]
भित्तादय: क्तान्ताः शकलादिष्वर्थेषु यथासङ्ख्यं निपात्यन्ते। भित्तं शकलमिति पर्याय:। 'ऋ गतौ' (१।२७५) ऋणं शोध्यम्। ऋणेऽधमोऽधमर्णः, तद्विषये निपातनम्। अधमर्णग्रहणं कालान्तरदेयविनिमयोपलक्षणम्, तेनोतमर्णविषयेऽपि स्यात्। विद्ल-वित्तं द्रव्यम्। भुज्यते इति भोग उच्यते। वित्तमिव वित्तम् उपचारात् प्रतीतेऽप्यभिधीयते।।१३९९।
[वि०प०]
भित्त०। ऋणेऽधमः इति राजदन्तादिदर्शनाद् ऋणशब्दस्य परनिपातः, स च ऋणेऽधम:, यो गृहीत्वा प्रतिदास्यतीति। अधमणेत्यादि। यस्मिन् कालेऽधमों गृह्णाति तस्माद् य आगामी काल: कालान्तरम्, तत्र देयम्। तेन विनिमय: परिवर्तस्तस्योप- लक्षणार्थम्, न तु स्वार्थप्रतिदानार्थमेव, तत: किमित्याह- तेनेति। ऋणे उत्तम: उत्तमर्णः, यो दत्त्वा ग्रहीष्यति। तत्र यद्यधमर्णग्रहणमुपलक्षणं न स्यात् तदा उत्तमर्ण इति न सिध्यति। इहाधमर्णस्याभावात् तदुपलक्षणत्वे सति तस्मिन्नपि तदपि सिध्यति कालान्तरविनिमयस्योत्तमर्णत्वाभावात् सोऽपि प्रयच्छन् कालान्तरे यद् देयं तेन विनिमयं करोति। प्रतीते वित्तन्न वक्तव्यम् इत्याह- वित्तमेवेति। यथा वित्तं लोके प्रतीतम्, तद्वदपरोऽपि। य: प्रतीतो ज्ञात: सोऽपि विन उपचारादित्यर्थः।।१३९९।
[क० त०]
भित्त०। यदि शोध्येऽर्थेऽधमणविषये ऋण इति निपातस्तदोत्तमों न सिद्ध्यतीत्याहअधमर्ण इत्यादि। प्रतीतेऽपीति। आख्यातेऽपीत्यर्थः। 'टीकायामन्वाख्यान इति करणे युट। अनेककर्मयोगादिति। अनेकक्रियायोगादित्यर्थः।।१३९९।।
[समीक्षा
'भित्त-ऋण-वित्त' शब्दों की सिद्धि दोनों ही आचार्यों ने निपातनविधि से की है। पाणिनि ने एतदर्थ ३ सूत्र बनाए हैं— “वित्तो भोगप्रत्यययोः, भित्तं शकलम, ऋणमाधमण्ये" (अ०८।२।५८,५९,६०)। सूत्रत्रयप्रयुक्त गौरव को छोड़कर अन्य प्रकार की तो उभयत्र समानता ही है।
[विशेष वचन] १. अधमर्णग्रहणं कालान्तरदेयविनिमयोपलक्षणम् (दु०वृ०)। २. टीकायामन्वाख्यान इति करणे युट (क० त०)। [रूपसिद्धि]
१-३ भित्तं शकलम्। भिद्+क्त+सि। ऋणं शोध्यम्। ऋ+क्त+सि। वित्तं द्रव्यम्। विद्+क्त सि। 'भिद्-ऋ-विद्' धातुओं से 'क्त' प्रत्यय, निपातन से 'भिद्-विद्' धातुओं के बाद निष्ठा-तकार को नकार का निषेध, 'ऋ' धातु से उत्तरवर्ती निष्ठा-तकार को नकारादेश तथा विभक्तिकार्य।।१३९९। १४००. अनुपसर्गात् फुल्लक्षीबकृशोल्लाघाः[४।६।११५]
[सूत्रार्थ
उपसर्ग से परवर्ती न होने पर 'फुल्ल-क्षीब-कृश-उल्लाघ' शब्द निपातन से सिद्ध होते हैं।।१४००।