________________
चतुर्थे कृत्प्रत्ययाध्याये षष्ठः क्त्वादिपादः
५५१
[दु०वृ० ]
अधिकरणेऽनधिकरणे च नाम्न्युपपदे बध्नातेर्णम् भवति संज्ञायां गम्यमानायाम्। क्रौञ्चे क्रौञ्चेन वा बन्धः क्रौञ्चबन्धं बन्धः । एवं मयूरिकाबन्धं बन्धः । अट्टालिकाबन्धं बन्धः । बन्धविशेषाणामियं सञ्ज्ञा ।। १३११ ।
[क०त०]
सं०। अधिकृतेनाधिकरणेन चकारः सम्बध्यते । ततोऽनधिकरणे चेति वृत्तौ युक्तम्। अन्यथा सूत्रमपि व्यर्थं स्यात्, सामान्यत्वाद् वा तेनैव सिद्धत्वात् । बन्धविशेषाणामिति। भारतादिप्रणीतशास्त्रविहितानामिति बोध्यम् ॥ १३११ ।
[समीक्षा]
'क्रौञ्चबन्धम्, मयूरिकाबन्धम्' इन्यादि शब्दरूपों के सिद्ध्यर्थ कातन्त्रकार 'णम्' प्रत्यय और पाणिनि 'णमुल् ' प्रत्यय करते हैं। पाणिनि का सूत्र है - "सञ्ज्ञायाम्” (अ० ३।४।४२)। अतः उभयत्र समानता है।
[रूपसिद्धि]
१. क्रौञ्चबन्धं बन्धः । क्रौञ्च + बन्ध् + णम्+ सि । क्रौञ्चे क्रौञ्चेन वा बन्धः । 'क्रौञ्च' शब्द के उपपद में रहने पर 'बन्ध्' धातु से प्रकृत सूत्र द्वारा 'णम्' प्रत्यय तथा विभक्तिकार्य ।
२- ३. मयूरिकाबन्धम्। मयूरिका+बन्ध् + णम्+सि। अट्टालिकाबन्धम्। अट्टालिका+ बन्ध्+णम्+सि। ‘मयूरिका - अट्टालिका' शब्दों के उपपद में रहने पर 'बन्ध' धातु से 'णम्' प्रत्यय आदि कार्य पूर्ववत् ।। १३११ ।
कर्त्रीर्जीवपुरुषयोर्नशिवहिभ्याम् [ ४ । ६ । २७]
१३१२. [सूत्रार्थ]
कर्ता कारक वाले ‘जीव-पुरुष' शब्दों के उपपद में रहने पर नश् और वह् धातु से 'णम्' प्रत्यय होता है ।। १३१२।
[दु०वृ० ]
जीवपुरुषयोः कर्त्रीरुपपदयोर्नशिवहिभ्यां णम् भवति यथासङ्ख्यम् । जीवनाशं नष्टः । जीवो नष्ट इत्यर्थः । पुरुषवाहं वहति । पुरुषो वहतीत्यर्थः । कर्त्रोरिति किम् ? जीवेन नष्टः, पुरुषेणोढः।। १३१२ ।
[समीक्षा]
‘जीवनाशम्, पुरुषवाहम्' शब्दों के साधनार्थ कातन्त्रकार वे णम् प्रत्यय तथा पाणिनि ने णमुल् प्रत्यय किया है। पाणिनि का सूत्र है- "कर्त्रीर्जीवपुरुषयोर्नशिवहो: " (अं० ३।४।४३ ) । अतः उभयत्र प्राय; समानता ही है।