________________
५३४
कातन्त्रव्याकरणम्
[रूपसिद्धि]
१. अग्रेभोजं व्रजति। अग्रे-भुज-णम्-सि। 'अग्रे' शब्द के उपपद में रहने पर ‘भुज पालनाभ्यवहारयोः' (६।१४) धातु से ‘णम्' प्रत्यय, उपधागुण तथा विभक्तिकार्य।
२. अग्रे भुक्त्वा व्रजति। अग्रे- भुज-क्त्वा सि। 'अग्रे' शब्द के उपपद में रहने पर 'भुज् ' धातु से “एककर्तृकयोः पूर्वकाले'' (४।६।३) सूत्र द्वारा क्त्वा प्रत्यय तथा विभक्तिकार्य।
___३-६. प्रथमं भोजं व्रजति। प्रथम्-भुज्-णम् -सि। प्रथमं भुक्त्वा व्रजति। प्रथमभुज-क्त्वा-सि। पूर्वं भोजं व्रजति। पूर्व- भुज-णम्-सि। पूर्वं भुक्त्वा व्रजति। पूर्व- भुजक्त्वा-सि। 'प्रथम-पूर्व' शब्दों के उपपद में रहने पर 'भुज्' धातु से ‘णम्-क्त्वा' प्रत्यय. उपधागुण तथा विभक्तिकार्य।।१२९१।
१२९२. कर्मण्याक्रोशे कृत्रः खमिञ् [४।६।७]
[सूत्रार्थ
कर्म कारक के उपपद में रहने पर 'कृञ्' धात् से 'खमिञ्' प्रत्यय होता है आक्रोश अर्थ के गम्यमान होने पर।।१२९२।
[दु०वृ०]
कर्मण्युपपदे कृञः खमिञ् भवति आक्रोशे गम्यमाने। चौरंकारमाक्रोशति। करोतिरिहोच्चारणे। आक्रोशनक्रिययैव कर्म। आक्रोश इति किम्? साधु कृत्वा स्तौति। खानुबन्धो मागमार्थ:।।१२९२।
[दु० टी०]
कर्मण्या०। आक्रोशविषये यदा करोतिः, करोत्यर्थ इति यावत्। अथवा आक्रोशे गम्यमाने इत्युभयथा पक्षेऽप्याक्रोशे इत्यवश्यं प्रयोक्तव्यं पूर्वकालावधारणायेति चोरोऽसीत्याक्रोशवाक्येऽपि भावशब्दस्य यत् करणं तदाक्रोशस्यैव संप्रदानार्थमित्याक्रोशक्रियया कर्म भवति, न हि तेन विनाक्रोश: सम्पादयितुं शक्यः। अथवा करोतिरभूतप्रादुर्भावार्थः, पूर्वमसौ चौरः क्रियते पश्चादाक्रुश्यते इति चौरत्वमध्यारोप्याक्रुश्यते इत्यर्थः। यथा यथा वाहिको गौः क्रियते। अन्य आहइतिशब्दस्यार्थे करोतिश्चौरः इत्याक्रोशतीत्यर्थस्तदा कथं चौरस्य कर्मत्वम्? सत्यम्। करोतिप्रयोगात् प्रतीयते स्वभावादिति।।१२९२।
[वि०प०]
कर्म। खमित्र इकार उच्चारणार्थ:। खानुबन्धे "ह्रस्वारुषोर्मोऽन्तः” (४।१।२२) धातूनामनेकार्थत्वादाह- करोतिरिहेति। चौरोऽसीत्याक्रोशतीति, चौरोऽसीत्याक्रोशतीत्यर्थः।