________________
चतुर्थे कृदध्याये पञ्चमो घादिपादः
४५५ तथापि काष्ठानां तृणानां च संघ: इति न प्रयुज्यते शिष्टैः। अभिधानकाण्डेऽपि यथादर्शनमाश्रित्यासामान्यं निगद्यते, यथा सङ्घसार्थावित्याह-प्राणिनामित्यादि। अन्य आह–वार्त्तिकसमुच्चयः कृताकृतसमुच्चय इति धात्वर्थमात्रस्य विवक्षितत्वान्न संघातार्थ इत्यदोषः। संघश्च द्वाभ्यां प्रकाराभ्यां भवति – एकधर्मोपदेशेन औत्तराधर्येण च। तत्रौत्तराधर्यप्रतिषेधादिहैककार्यद्वार: संघो गम्यते, न तु भिन्नकार्योपपन्नास्त एव समुदिता इति। यथा भिक्षूणां सङ्घ:, ब्राह्मणानां सङ्घ इति।।१२०८।
[वि० प०]
शरीर ०। अपीत्यादि। चीयते इति चितिः, अग्न्याधारविशेषः। राशिस्तु विप्रकीर्णानामुपर्युपरिस्थापनमिति।।१२०८।
[समीक्षा]
‘वैयाकरणनिकायः' इत्यादि शब्दों के सिद्ध्यर्थ दोनों ही व्याकरणों में 'घञ्' प्रत्यय तथा चकार को ककार आदेश किया गया है। पाणिनि का सूत्र है- “संघे चानौत्तराधर्ये' (अ०३।३।४२)। अत: उभयत्र पूर्ण समानता है।
[रूपसिद्धि]
१. वैयाकरणनिकायः। नि + चिञ् + घञ् + सि। 'नि' उपसर्ग के उपपद में रहने पर 'चिञ् चयने' (४।५) धातु से प्रकृत सूत्र द्वारा ‘घञ्' प्रत्यय, वृद्धि, आय् आदेश, चकार को ककार तथा विभक्तिकार्य।।१२०८।
१२०९. परिन्योर्नीणो ताभ्रेषयोः [४।५।३७] [सूत्रार्थ
द्यूतविषय में 'परि' उपपद - पूर्वक ‘णीञ् प्रापणे' (१।६००) धातु से तथा अभ्रेषविषय में 'नि' उपपद-पूर्वक 'इण् गतौ' (२।१३) धातु से 'घञ्' प्रत्यय होता है।।१२०९।
[दु० वृ०]
परिन्योरुपपदयोर्नीणोघञ् भवति यथासङ्ख्यं द्यूतविषये अभ्रेषे चार्थे। अभ्रेषोऽचलनन्, यथाप्राप्तकरणमित्यर्थः। परिणायेन शारीनाहन्ति। सर्वतो नयनेनेत्यर्थः। अभ्रेषे-एषोऽत्र न्यायः।।१२०९।
[दु० टी०]
परिन्यो०। द्यूतविषये इत्यादि। द्यूतार्थश्चेन्नयत्यों भवतीत्यर्थः। अभ्रेषे चार्थे इत्येकापि सप्तम्यर्थवशाद् भिद्यते। भ्रषणं भ्रषो न भ्रषोऽभ्रेषः यथाप्राप्तकरणमिति। प्रमाणादागमश्लोकाच्चेति। परिणायेनेति। उपसर्गात्रयतेर्णत्वम् ॥१२०९।
[समीक्षा] 'परिणाय:, न्याय:' शब्दों की सिद्धि दोनों ही आचार्यों ने ‘घञ्' प्रत्यय द्वारा