________________
४६४
कातन्त्रव्याकरणम्
[दु० टी०]
नौ गद०। "यमः सन्न्युपविषु च'' (४।५।४७) इत्यतश्चकारोऽनुवर्तते नौ चेति। नावपपदेऽनुपसर्गे चेत्यर्थः। कथमेतत् 'स्वनहसोर्वा' (४।५।४६) इत्यत्र स्वनग्रहणसामर्थ्याद अन्यथा स्वनेरल् प्रसिद्ध इत्याह-स्वनेत्यादि। एवं वदन् किमावेदयति? वक्ष्यमाणे योगे चकारः सम्बध्यते इति भावः।।१२२० ।
[वि० प०]
नो गद०। अत्रापि चकारानुवृत्त्याऽनुपसर्गे चेत्यस्य कथं न सम्बन्ध इत्याहस्वनेत्यादि। अन्यथाऽनेनैवानुपसर्गेऽल् सिद्ध इति भावः। उत्तरसूत्रे चकारानुवृत्तिरस्त्येवेति। अनुपसर्गे चेति सम्बन्धो न विरुध्यते।।१२२०।
[समीक्षा]
'निनदः, निनादः' इत्यादि शब्दरूपों के सिद्ध्यर्थ कातन्त्रकार ने 'अल्' प्रत्यय तथा पाणिनि ने 'अप्' प्रत्यय किया है। पाणिनि का सूत्र है – “नौ गदनदपठस्वनः'' (अ०३।३।६४)। इस प्रकार अनुबन्धभेद को छोड़कर शेष तो उभयत्र समानता ही है।
[रूपसिद्धि]
१-४. निगदः, निगाद:। नि + गद् + अल् + सि। निनदः, निनाद:। नि + नद् + अल् + सि। निपाठः, निपाठः। नि + पट् + अल् + सि। निस्वनः, निस्वान:। नि + स्वन् + अल् + सि। 'नि' उपसर्ग के उपपद में रहने पर 'गद् - नद् - पट - स्वन्' धातुओं से 'अल्' प्रत्यय तथा विभक्तिकार्य। पक्ष में 'घञ्' प्रत्यय होने पर 'निगादः, निनादः, निपाठः, निस्वान:' शब्दरूप साधु माने जाते हैं।। १२२० ।
१२२१. क्वणो वीणायां च [४।५।४९] [सूत्रार्थ]
किसी के उपपद में न रहने पर तथा 'नि' के उपपद में रहने पर वीणा के विषय में 'क्वण शब्दे' (१।१४६) धातु से 'अल्' प्रत्यय होता है।।१२२१॥
[दु० तृ०]
नावुपपदेऽनुपसर्गे च वीणाविषये क्वणतेरल भवति वा। क्वणः, क्वाणः। निक्वणः, निक्वाणः। चकारे सति वीणाग्रहणं सोपसर्गार्थम् । प्रक्वणः। वीणायां प्रक्वाण इति।।१२२१।
[दु० टी०] क्वणो०। वीणायां चेति। तत्र चकारो योगविभागार्थ इत्याह–चकारे सतीति।।१२२१॥ [वि०प०]
क्वणो०। इह पुनश्चकारो योगविभागार्थ इति। तेन वीणायां चेति द्वितीयसूत्रेऽनुपसर्ग इति न सम्बध्यते, पूर्वेण सिद्धत्वादित्याह–चकार इति।।१२२१।