________________
चतुर्थे कृत्प्रत्ययाध्याये तृतीयः कर्मादिपादः 'विदुषी' शब्द के उपपद में रहने पर 'मन् ' धातु से खश् प्रत्यय, “दिवादेर्यन्" (३।२।३३) से ‘यन् ' विकरण, “दीर्घस्योपपदस्यानव्ययस्य खानुबन्धे'' (४।१।२०) से ह्रस्व, “ह्रस्वारुषोर्मोऽन्तः' (४।१।२२) से मकारागम तथा विभक्तिकार्य ।
३-४ विद्वन्मानी, विद्वन्मन्यः। विद्वस् + मन् +णिनि, खश् + सि । विद्वांसमात्मानं मन्यते । ‘विद्वस् ' शब्द के उपपद में रहने पर ‘णिनि-खश्' प्रत्यय आदि कार्य प्रायः पूर्ववत् । __५-६. पटुमानिनी, पटुम्मन्या। पटवी + मन् + णिनि - खश् + सि । पट्वीमात्मानं मन्यते । ‘पट्वी' शब्द के उपपद में रहने पर 'मन् ' धातु से ‘णिनिखश् ' प्रत्यय आदि कार्य पूर्ववत् ।
७-८. पटुमानी, पटुम्मन्यः। पटु + मन् + णिनि, खश् + सि । पटुमात्मानं मन्यते । ‘पटु' शब्द के उपपद में रहने पर 'मन् ' धातु से ‘णिनि-खश् ' प्रत्यय आदि कार्य पूर्ववत् ॥ १०८५।
१०८६. करणेऽतीते यजः [४।३।८१] [सूत्रार्थ]
करण कारक वाले नाम के उपपद में रहने पर अतीतक्रियार्थक 'यज देवपूजासङ्गतिकरणदानेषु' (१।६०८) धातु से ‘णिनि' प्रत्यय होता है ।।१०८६।
[दु० वृ०]
करणवाचिन्युपपदेऽतीते क्रियायां वर्तमानाद् यजतेर्णिनिर्भवति। अग्निष्टोमयाजी, वाजपेययाजी। अग्निष्टोमाख्यैर्यागैः स्वर्गाख्यं फलं भावितवानित्यर्थः। स्वर्गशब्दस्तु वृत्तावन्तर्भूतो वाक्ये न प्रयुज्यते। यदि विशेषव्यापार: सामान्यव्यापारस्य करणं तत्कथम् अग्निहोत्रं जुहुयात् स्वर्गकामः? अपौरुषेयाणि वेदवाक्यानीति। अतीत इति किम्? अग्निष्टोमेन यजति । करण इति किम् ? ग्रामे यजति स्म, अविवक्षितकरणत्वात् ।।१०८६।
[दु० टी०]
करणे०। अतीतमतिक्रान्तं प्रकृतिविशेषणं चैतत् ।तस्याः प्रकृतेः स्वस्मिन्नभिधेये यद्गुणीभूतायामतीतविशेषणं न सम्भवतीति शब्दे कार्यस्यासम्भवादर्थे कार्य विज्ञायमानं तादर्थ्यस्य विशेषणमित्याह-अतीतक्रियायां वर्तमानादिति। कर्तृविशेषणेऽतीतेऽग्निष्टोमयाज्ययं वटुरिति न सिध्यति। येषां क्रिययैव काल इति दर्शनं तेषामधिकरणमन्तरेणापि कालनिर्देश एवायम्। येषामपि व्यतिरिक्त: कालस्तेषामपि क्रियाया विशेषा एव तेषामभिव्यञ्जका भेदका वेति तद्ग्रहणेन तस्यापि ग्रहणमेवेति। यद्येवं निष्ठायामितरेतराश्रयत्वात् तदप्रसिद्धिः।