________________
३४९
चतुर्थे कृत्प्रत्ययाध्याये चतुर्थः क्वन्सुपादः [क० च०]
वेत्तेः । ननु सूत्रे वाग्रहणाभावात् कथं विकल्प उपलभ्यते इत्याह - पण्डिताभिधायिन इति । अयमर्थः- यदैव पदेन पण्डित उच्यते तदैव क्रियते वन्स्वादेशः, यदा क्रियोच्यते तदा शन्तृङः स्थिति:। 'महिम्नः पारं ते परमविदुषः' इति ते तव महिम्न: पारम् अविदुषोऽजानत इत्यर्थः ।। ११०४।
[समीक्षा
'विद्वान् , विद्वांसौ' इत्यादि शब्दरूपों के सिद्ध्यर्थ कातन्त्रकार ने 'शन्तृङ्' को 'वन्सु' आदेश तथा पाणिनि ने 'शतृ' को 'वसु' आदेश किया है । पाणिनि का सूत्र है- “विदेः शतुर्वसुः' (अ० ७।१।३६)। प्रत्यय तथा आदेश में नकार का योग तथा उसका अभाव तो अपने अपने व्याकरण की प्रक्रिया के अनुसार है । अत: उभयत्र समानता ही है ।
[विशेष वचन] १. तिनिर्देश: सुखार्थः (दु० वृ०)। २. सत्यम् , प्रतिपत्तिगौरवं स्यात् (दु० टी०)। [रूपसिद्धि]
१. विद्वान्, विदन्। विद् + शन्तृङ् - वन्सु + सि । 'विद ज्ञाने' (२।२७) धातु से 'शन्तृङ् ' प्रत्यय, वन्सु - आदेश तथा विभक्तिकार्य । वन्सु - आदेश के अभाव में 'विदन् ' शब्दरूप ।
२. विद्वांसौ, विदन्तौ। विद् + शन्तृङ् - वन्सु + औ । 'विद' धातु से शन्तृङ्, वन्सु - आदेश तथा विभक्तिकार्य । वन्सु - आदेश के अभाव में 'विदन्तौ' शब्दरूप ।।११०४।
११०५. आनोऽत्रात्मने [४।४।५] [सूत्रार्थ)
'क्वन्सु - कान - शन्तृङ् - आनश् ' प्रत्ययों में से 'कान-आनश् ' इन दो प्रत्ययों की 'आत्मनेपद' संज्ञा होती है ॥११०५।
[दु० वृ०]
अत्रैतेषु क्वन्सुप्रभृतिषु मध्ये आन एवात्मनेपदसज्ञो भवति, इतर: परस्मैपदमर्थात्। अधीयमानम् , स्थीयमानम् , पचमानः, रोचमानः, चक्राणः, व्यतिबभूवानः। आत्मनेपदत्वाद् भावकर्मणोः कर्तरि रुचादिभ्यश्च भवति ।।११०५।
[दु० टी०]
आनो०। आन इति कानानशोः ककारशकारानुबन्धावुत्सृज्य निर्दिश्यते । अत्रेति निर्धारणे सप्तमी । शन्तृवन्सू परस्मैपदम् इति प्रतियोगित्वादत्र ग्रहणमवधारयति, तेन परस्मैपदिभ्य एव भवतः ॥११०५।