________________
४२४
कातन्त्रव्याकरणम्
+ घत्र + सि। ओकः। उच् + घञ् - सि। ‘रुज् - विश् - स्पृश् - उच्' धातुओं से 'घञ्' प्रत्यय, उपधागुण, चवर्ग को कवर्गादेश तथा विभक्तिकार्य।। ११७३।
११७४. सृ स्थिरव्याध्योः [४।५।२] [सूत्रार्थ
स्थिर तथा व्याधि अर्थ के गम्यमान होने पर 'सृ गतौ' (११२७४) धातु से कर्ता अर्थ में 'घञ्' प्रत्यय होता है।।११७४।
[दु० वृ०]
सृधातोः स्थिरे व्याधौ च कर्तरि घञ् भवति। सरति कालान्तरमिति सारः। स्थिरोऽर्थः। अतीसारो व्याधिः। ह्रस्वस्य दीर्घता। सरन्त्यनेनेति सारो बलम् । विसरन्त्यनेनेति विसारो मत्स्य:। सञ्ज्ञाशब्दत्वात् करणे एव सिद्धः। पद्यतेऽनेनेति पादो भविष्यति? सत्यम् , प्रपञ्चार्थं पदिग्रहणम् ।।११७४।
[दु० टी०]
सृ०। 'सृ' इति कृतपञ्चमीलोपो निर्देश: सर्तेर्गतिरर्थ इति सार: कालान्तरस्थायिन एव कर्तुः सम्भवतीत्याह- स्थिरोऽर्थ इति। अन्यस्मिन् कर्तरि सारकः, सर्तेति भवति। अथवा बलेऽपि स्थैर्यमस्तीति स्थिर इत्यनेनैव सिद्धम् ।।११७४।
[वि० प०]
सृ०। सृ इति लुप्तपञ्चम्येकवचनम् । सरन्त्यनेनेत्यादि। एतेन बलमत्स्ययोश्चेति न वक्तव्यम्, “अकर्तरि च कारके संज्ञायाम्' (४।५।४) इति सिद्धत्वात् । एतदेवोपजीव्याहयद्येवमिति। पदीत्युपलक्षणम् । रुजत्यनेनेति रोगो व्याधिः। विशत्यस्मिन् यूनां मन इति वेशो वेश्यागृहम् । स्पृश्यते इति स्पों गुणविशेषः। स्पृशतीति स्पों देवदत्तः इति पचाद्यचा सिद्धमेव । उच्यति समवेत्यस्मिन् जन इति ओको गृहम्। रुजतीत्यादौ कर्तर्यच् प्रत्ययो नाभिधीयते संज्ञाशब्दात् । तथा अतिसरन्त्यनेन प्राणिन इति अतीसारः। सरन्ति कालान्तरमनेन तदर्थिनः पुरुषा इति सारः कालान्तरस्थायी पदार्थ उच्यते। एतेऽपि सज्ञाशब्दत्वात् तेनैव सिद्धा इति भावः।।११७४।
[क० च०]
सृ०। तदर्थिन इति पञ्जी। स चासावर्थश्चेति तदर्थः, सोऽस्यास्तीति इन् स्थिरांशयुक्तः, अनेन स्थिरांशेन कालान्तरं सरतीत्यर्थः।।११७४।
[समीक्षा]
'सारः, अतीसारः' इत्यादि शब्दों के सिद्ध्यर्थ दोनों ही व्याकरणों में 'धञ्' प्रत्यय का विधान किया गया है। पाणिनि का सूत्र है – “सृ स्थिरे'' (अ०३।३।१७)। यहाँ अन्तर यह है कि कातन्त्रकार ने दो अर्थों में 'सृ' धातु से घञ् प्रत्यय किया है। जबकि पाणिनि ने केवल एक ही अर्थ में। द्वितीय अर्थ की पूर्ति वार्तिक-सूत्र में की गई है। इस प्रकार यहाँ कातन्त्रकारीय उत्कर्ष सिद्ध होता है।