________________
४१२
कातन्त्रव्याकरणम्
सज्ञासु धातुरूपाणि प्रत्ययाश्च ततः परम् ।
कार्यैर्विद्यादनूबन्धमेतदूह्यमुणादिषु ।। कार्यैर्गणवृद्धयादिलक्षणैः अनुबन्धम् अकारादिलक्षणं जानीयादिति ।।११६७। [क० च०]
उणादयः। परिभाषासूत्रमिदम, तथाप्यनिर्दिष्टकालत्वाद् उणादयस्त्रिष्वपि कालेष स्युरिति अनियमे नियमः क्रियते। न ह्यनेनोणादयो विधीयन्ते इति। 'सज्ञापूर्वको विधिरनित्यः' (का० परि० ३२) इत्युणादय इति न द्विर्भावः, अत एव निर्देशादित्यन्ये। अतीते वर्तमाने सर्वत्रैवोणादयो न भवन्तीति, किन्तु संज्ञाशब्दत्वात् केचिद् वर्तमाने केचिद् अतीते इत्याह - केचिदित्यादि। सूत्रमिदं न कात्यायनस्य, किन्तु मतान्तरस्य वृत्तिकारेणोपलक्षणार्थमिह लिखितमिति। स्वमते तु सर्वे एवोणादयोऽव्युत्पन्ना इति। यत् पुनरिति पञ्जी अप्रतिपादित: प्रकृतिप्रत्ययविशेषो यस्य शब्दरूपस्येति विग्रहः। अनासादितति। अनासादिता आत्मनो निष्पत्तिरात्मलाभो यस्य । कुत ऊह्यमित्याह- ऊहनद्वारेणेति। अथासावूह: किं सर्वत्रेत्याह - ऊहश्चायमिति ।।११६७।
[समीक्षा]
वर्तमान तथा भूत अर्थ में 'उण्' आदि प्रत्ययों के विधानार्थ दोनों ही व्याकरणों में सूत्र बनाए गए हैं । पाणिनि के दो सूत्र हैं - "उणादयो बहुलम् , भूतेऽपि दृश्यन्ते'' (अ० ३।३।१,२)। इस प्रकार कातन्त्रकार ने एक ही सूत्र में दोनों अर्थों का समावेश करके लाघव प्रदर्शित किया है, जबकि दो अर्थों के अभिप्राय से दो सूत्र बनाकर पाणिनि ने गौरव का आश्रय लिया है ।
[विशेष वचन] १. प्रकृतिप्रत्ययावगमो व्युत्पत्तावपि रूढित एव (दु० वृ०)। २. इहाव्युत्पन्ना एवेति दर्शनम् (द० टी०)। ३. चकारो भिन्नक्रमेऽवधारणे वा (वि० प०)। ४. स्वमते तु सर्वे एवोणादयोऽव्युत्पन्ना इति (क० च०)। [रूपसिद्धि]
१. कारुः। कृ + उण + सि । करोति । 'डु कृञ् करणे' (७।७) धातु से वर्तमान अर्थ में प्रकृत परिभाषासूत्र के नियमानुसार “कृवापाजि०" (कात० उ०१।१ ) सूत्र द्वारा 'उण्' प्रत्यय, 'ण' अनुबन्ध का प्रयोगाभाव, इज्वद्भाव, “अस्योपधाया दीर्घा वृद्धिर्नामिनामिनिचट्सु' (३।६।५) से ऋकार को वृद्धि तथा विभक्तिकार्य ।
२. वायुः। वा + उण + सि । वाति। ‘वा गतिगन्धनयोः' (२।१७) धातु से उण प्रत्यय, यकारागम तथा विभक्तिकार्य ।
३ - ४. वर्त्म। वृत् + मन् + सि । वृत्तं तत् । भस्म। भस् + मन् + सि । भसितं तत् । 'वृत् ' तथा 'भस् ' धातु से भूत अर्थ में “सर्वधातुभ्यो मन् '' (कात० उ० ४।२८) सूत्र द्वारा ‘मन् ' प्रत्यय तथा विभक्तिकार्य ।।११६७।