________________
चतुर्थे कृत्प्रत्ययाध्याये तृतीयः कर्मादिपादः १०९६. सप्तमीपञ्चम्यन्ते जनेर्डः [४।३।९१] [सूत्रार्थ]
सप्तम्यन्त तथा पञ्चम्यन्त शब्द के उपपद में रहने पर अतीतकालार्थक ‘जन्' धातु से 'ड' प्रत्यय होता है ।।१०९६।
[दु० वृ०]
सप्तम्यन्ते पञ्चम्यन्ते चोपपदेऽतीते वर्तमानाज्जने? भवति । जले जातं जलजम्, सरसि जातं सरसिजम्। बुद्धिजम् , क्रोधजम् । संस्कारज:, ब्राह्मणजो धर्म: । क्षत्रियजं युद्धम् । कथम् अश्वाज्जातः, हस्तिनो जातः इति ? प्राय: पञ्चम्यामजातावेव दृश्यते ।।१०९६।
[दु० टी०]
सप्तमी०। प्राय इत्यादि । यद्येवं ड इत्यास्ताम् , सप्तम्यां जनेर्डः, पञ्चम्यामजातो, जातावपि डप्रसङ्गात् संज्ञायामसंज्ञायामपि अनोः कर्मपूर्वात् केवलादप्यभिधानसामर्थ्याद् भवतीति ? सत्यम् , मन्दमतिबोधनार्थं सूत्रद्वयमुच्यते इति न दोषः ।।१०९६।
[वि०प०]
सप्तमी०। कथमित्यादि । प्रायोग्रहणेन जातावपि क्वचिद् आचष्टे । यथोदाहृतम् - ब्राह्मणजो धर्मः, क्षत्रियजं युद्धम् । अन्यथा 'बुद्धिजः, संस्कारजः' इत्येव स्याद् अत एव पञ्चम्यामजाताविति न कृतो नियमः ॥१०९६।
[क० च०] सप्तमी०। 'येन विधिस्तदन्तस्य' इति सिद्धे अन्तग्रहणं स्पष्टार्थम् ।।१०९६। [समीक्षा]
'सरसिजम् , संस्कारजः' आदि शब्दरूपों के सिद्ध्यर्थ दोनों ही व्याकरणों में 'ड' प्रत्यय का विधान किया गया है । पाणिनि के दो सूत्र हैं - "सप्तम्यां जनेर्ड:, पञ्चम्यामजातौ” (अ०३।२।९७,९८)। कातन्त्रकार ने 'ब्राह्मणजो धर्मः, क्षत्रियजं युद्धम् ' जैसे कुछ प्रयोगों में जाति में भी पञ्चम्यन्त से 'ड' प्रत्यय माना है । अत: उन्होंने पाणिनि की तरह “पञ्चम्यामजातौ" यह पृथक् सूत्र न बनाकर उत्कर्ष सूचित किया है ।
[विशेष वचन)] १. मन्दमतिबोधनार्थं सूत्रद्वयमुच्यते (दु० टी०)। २. येन विधिस्तदन्तस्येति सिद्धेऽन्तग्रहणं स्पष्टार्थम् (क० च०)।