________________
चतुर्थे कृत्प्रत्ययाध्याये तृतीयः कर्मादिपादः २८५ क्रियतेऽनेन । 'अन्ध' शब्द के उपपद में रहने पर 'कृ' धातु से ‘ख्युट' प्रत्यय आदि कार्य पूर्ववत् ।
५. स्थूलङ्करणं दधि । स्थूल + कृ + ख्युट + सि । अस्थूल: स्थूलः क्रियतेऽनेन। 'स्थूल' शब्द के उपपद में रहने पर 'कृ' धातु से 'ख्युट्' प्रत्यय आदि कार्य पूर्ववत् ।
६. सुभगङ्करणं रूपम् । सुभग + कृ + ख्युट + सि । असुभगः सुभग: क्रियतेऽनेन । 'सुभग' शब्द के उपपद में रहने पर 'कृ' धातु से 'ख्युट' प्रत्यय आदि कार्य पूर्ववत् ।
७. आढ्यङ्करणं वित्तम् । आढ्य + कृ + ख्युट + सि । अनाढ्य: आढ्य: क्रियतेऽनेन । ‘आढ्य' शब्द के उपपद में रहने पर 'कृ' धातु से 'ख्युट' प्रत्यय आदि कार्यविधान पूर्ववत् ।।१०६२।।
१०६३. भुवः खिष्णुखुको कर्तरि [४।३।५८] [सूत्रार्थ
अभूततद्भाव अर्थ में वर्तमान 'नग्न-पलित-प्रिय-अन्ध-स्थूल-सुभग-आढ्य' शब्दों के उपपद में रहने पर 'भू सत्तायाम्' (१।१) धातु से 'खिष्णु' तथा 'खुकञ्' प्रत्यय होते हैं।।१०६३।
[दु० वृ०]
अभूततद्भावे वर्तमानेषु नग्नादिषूपपदेषु भुव: खिष्णुखुकञौ भवतः कर्तरि । नग्नम्भविष्णुः, नग्नम्भावुकः । पलितम्भविष्णुः, पलितम्भावुकः । प्रियम्भविष्णुः, प्रियम्भावुकः । अन्धम्भविष्णु:, अन्धम्भावुकः । स्थूलम्भविष्णुः, स्थूलम्भावुकः । सुभगम्भविष्णुः, सुभगम्भावुक: । आढ्यम्भविष्णुः, आढ्यम्भावुकः । 'अनग्नम्भविष्णुः, अनग्नम्भावुकः' इत्यादि तदन्तविधिना । च्यन्तेषु न भवति - आढ्यीभविता । ताच्छीलिकत्वान्नास्त्यभूततद्भाव इति न परावपीष्णुजुकञौ । इकारः सुखार्थः । तथा कर्तरीति ।।१०६३।
[दु० टी०]
इटेकारादित्वं सिद्धम् , नैवम्। सन्देह: स्यात् किमयं खकार: ककारो वेति । कानुबन्धे इगुणयोरभावः, प्रथममकृत्वा निर्दिश्यते पाठगौरवं स्यादित्याह – इकार इत्यादि । कर्तरि कृदित्यविशेषे कर्तरि सिद्ध एव भवतेरकर्मकत्वात् कर्तरीति नग्नविशेषणमपि न भवति अभूततभाव इति किम् ? आढ्यो भवति ।।१०६३।
[वि० प०]
भुवः। अनग्नम्भविष्णुरित्यपि तदन्तविधिरिष्यत इति भावः। आढ्यीभवितेति व्यक्त्यन्तरत्वात् तृच्। अत्रापि "भ्राज्यलम्०" (४।४।१६) इत्यादिना "शृकमगमहन०" (४।४।३४) इत्यादिना इष्णुजुकौ परत्वात् तृचं बाधित्वा कथं न भवतः ? न देश्यम्, विशेषाभावात् । न ह्यनयोरुत्पत्तौ खिष्णुखुकशोर्निषेधोऽर्थवान् । आगमलक्षणस्य विशेषस्य