________________
चतुर्थे कृत्प्रत्ययाध्याये तृतीयः कर्मादिपादः ३१३ क्रोशनादेः कर्तर्युपमानपदे णिनिरिति सूत्रार्थेऽपरिहार्यत्वेनैव गौणकर्तृपरं सूत्रम्। न ह्युपमाने क्रोशनपदक्रियायां सत्यां मुख्य कर्ता सम्भवतीति चेत् तथाप्युभयोः समानत्वम्। अस्मन्मते मुख्यकर्तृपरस्य सूत्रस्य सम्भवे गौणकर्तृपरत्वमनुचितम्, किन्तु भवन्मते षष्ठीसप्तम्योर) प्रति भेदाभाव इत्यतिरिक्तकल्पना।। १०८२।
[समीक्षा]
'उष्टक्रोशी, ध्वाक्षरावी' इत्यादि शब्दरूपों के सिद्ध्यर्थ दोनों ही आचार्यों ने ‘णिनि' प्रत्यय का विधान किया है । पाणिनि का सूत्र है - "कर्तर्युपमाने'' (अ० ३।२।७९)। अत: उभयत्र समानता ही है ।
[रूपसिद्धि
१. उष्ट्रक्रोशी । उष्ट्र + क्रुश् + णिनि + सि । उष्ट्र इव क्रोशति । 'उष्ट्र' शब्द के उपपद में रहने पर 'क्रुश आह्वाने' (१५६४) धातु से प्रकृत सूत्र द्वारा ‘णिनि' प्रत्यय, धातुघटित उपधा उकार को गुण तथा विभक्तिकार्य ।
२. ध्वाङ्क्षरावी। ध्वाक्ष + रु + णिनि + सि । ध्वाङ्क्ष इव रौति । 'ध्वाङ्क्ष' शब्द के उपपद में रहने पर 'रु शब्दे' (२।१०) धातु से प्रकृत सूत्र द्वारा ‘णिनि' प्रत्यय, वृद्धि, आवादेश तथा विभक्तिकार्य ।। १०८२।
१०८३. व्रताभीक्ष्ण्ययोश्च [४।३।७८] [सूत्रार्थ]
व्रत तथा आभीक्ष्ण्य अर्थ के गम्यमान होने पर एवं नाम के उपपद में रहने पर धातु से 'णिनि' प्रत्यय होता है ।। १०८३।
[दु० वृ०]
व्रतं शास्त्रविहितो नियम: । आभीक्ष्ण्यं पौन:पुन्यम् आसेवा वा । नाम्न्युपपदे धातोताभीक्ष्ण्ययोर्गम्यमानयोर्णिनिर्भवति । अश्राद्धभोजी, अलवणभोजी । अर्थित्वात् प्रवृत्तौ नियम: सति भोजनेऽश्राद्धमेव भुङ्क्ते न श्राद्धमिति । आभीक्ष्ण्ये - क्षीरपायिण उशीनराः, सौवीरपायिणो बाह्रीका: । तत्रान्यत् पेयं नास्तीति । रुचिं विनापि क्षीरे तात्पर्यमिति । शीलादन्यदाभीक्ष्ण्यम् ॥ १०८३।
[दु० टी०]
व्रता०। जात्यर्थमताच्छील्याभीक्ष्ण्यार्थं च वचनम्। कर्तृविशेषणे हि व्रतग्रहणे कर्तरि णिनिः प्रसज्येत, न तद्वति देवदत्ते। न च पदार्थों नियमः कामचारस्य विशेषेऽवबोधो नियम उच्यते। स च वाक्यार्थों यथा 'नोद्यन्तमर्कमीक्षते' इति। तस्मात् समुदायोपाधिव्रतमाभीक्ष्ण्यसाहचर्याच्चेति। अश्राद्धभोजी। अश्राद्धम् अधिकरणं कर्म च विवक्षावशात्। एवम् अमृन्मयेऽश्नाति अमृन्मयाशी। स्थण्डिले शेते - स्थण्डिलशायी। अर्थित्वादित्यादि। अर्थित्वाद् यथेष्टं भोजनादिप्रवृत्तौ प्राप्तायामर्थान्तराद् व्यावृत्य विशेषे