________________
चतुर्थे कृत्प्रत्ययाध्याये तृतीयः कर्मादिपादः २८१ १०६०. हस्तिबाहुकपाटेषु शक्तौ [४।३।५५] [सूत्रार्थ)
शक्ति अर्थ के गम्यमान होने पर 'हस्तिन्-बाहु-कपाट' शब्दों के उपपद में रहने पर 'हन्' धातु से 'टक्' प्रत्यय होता है ।।१०६०।
[दु० वृ०]
एषु कर्मसूपपदेषु शक्तौ गम्यमानायां हन्तेष्टग् भवति । हस्तिघ्नः, बाहुघ्न: इति मतम्। कपाटघ्नः । नगरे तु अहस्तिन्यपि वचनात् - नगरघ्नोऽग्निः । नगरघातो हस्ती चेत् ।।१०६०।
[दु० टी०] हस्ति० । मतमिति । परन्तु बाहुशब्दं न पठतीत्यर्थः ।।१०६०। [वि० प०] हस्ति०। मतमित्यस्य मतम्। अन्यस्तु बाहुघ्न इति न मन्यते इति।।१०६०। [क० च०]
हस्ति० । नगरे त्विति । नगरे कर्मण्युपपदे हस्तिभिन्ने कर्तरि अपिशब्दस्य बाहुल्यादित्यर्थः ।।१०६०।
[समीक्षा
'हस्तिघ्नः, कपाटघ्नः' शब्दरूपों के सिद्ध्यर्थ दोनों आचार्यों ने 'टक' प्रत्यय किया है। पाणिनि ने दो ही शब्दों को सूत्र में पढ़ा है, उनका सूत्र है- "शक्तौ हस्तिकपाटयोः' (अ० ३।२।५४),परन्तु कातन्त्र में 'बाहु' शब्द का अधिक पाठ करके उत्कर्ष ही बताया गया है ।
[रूपसिद्धि]
१. हस्तिनः। हस्तिन् + हन् + टक् + सि । हस्तिनं हन्तुं शक्तः । 'हस्तिन्' शब्द के उपपद में रहने पर 'हन्' धातु से प्रकृत सूत्र द्वारा 'टक्' प्रत्यय, अकारलोप, हकार को घकारादेश तथा विभक्तिकार्य ।
२-३. बाहुघ्नः। बाहु + हन् + टक् + सि। बाहू हन्तुं शक्तः। कपाटनः। कपाट + हन् + टक् + सि । कपाटं हन्तुं शक्तः। रूपसिद्धि की प्रक्रिया पूर्ववत् ।।१०६०।
१०६१. पाणिघताडघौ शिल्पिनि [४।३।५६] [सूत्रार्थ
शिल्पी यदि कर्ता हो तो 'पाणिघ-ताडघ' शब्द टक्-प्रत्ययान्त निपातन से सिद्ध होते हैं ।।१०६१।।
[दु० वृ०]
एतौ शिल्पिनि कर्तरि निपात्येते। पाणिभ्यां पाणौ वा हन्ति पाणिघः। ताडं हन्ति ताडघः। शिल्पिनीति किम्? पाणिघात:, ताडघात:। राजानं हन्ति राजघः इत्यप्यधिकारात्।।१०६१।