________________
चतुर्थे कृत्प्रत्ययाध्याये तृतीयः कर्मादिपादः [दु० वृ०]
असूर्योग्रयोः कर्मणोरुपपदयोदृश: खश् भवति । न सूर्यं पश्यन्तीति असूर्यम्पश्यानि मुखानि, असूर्यम्पश्या राजदाराः । सूर्यमपि न पश्यन्तीत्यर्थ: । दृशिना सह संबद्धस्य नञ् सूर्येण सह समासो गमकत्वात् । उग्रम्पश्य: ।।१०३९।
[दु० टी०]
असू० । सूर्यादन्योऽसूर्यः इति नाश्रीयते । गुप्तिपरं ह्येतत् सूर्यदर्शनप्रतिषेधेन दृष्टेरेव प्रतिषेधाख्यानात् । एवं नाम राजदाराणां गुप्तानि मुखानि यदपरिहार्यदर्शनं सूर्यमपि न पश्यन्तीत्यसूर्यमपीत्यादि ।।१०३९।
[वि० प०]
असूर्य० । असूर्यमित्यादि । न तु सूर्यादन्योऽसूर्यस्तं पश्यन्तीति गुप्तिप्रधानत्वादस्य वाक्यस्य । सूर्यदर्शनप्रतिषेधेन हि अन्येषामेव दर्शनप्रतिषेध आख्यायते । एवं नाम सुगुप्तानि राजदाराणां मुखानि, येनापरिहार्यदर्शनं सूर्यमपि न पश्यन्तीत्यर्थः । न सूर्येण सह नञः सम्बन्ध इत्याह – दृशिनेत्यादि ।।१०३९।
[क० च०]
असूर्य० । अथ न सूर्योऽसूर्य इति सूर्यभिन्नो देवदत्तादिस्तं न पश्यन्ति, उत वाऽन्यत् , नैवम् । गुप्तिप्रधानोऽयं वाक्यार्थः, न तु पर्युदास:, किं तर्हि प्रसज्यवृत्तिरित्याह - सूर्यमपीति । अथ प्रसज्यनञः क्रियया सह सम्बन्धे सति युक्तार्थत्वाभावात् कथं समास: ? तथा चोक्तम् -
अप्राधान्यं विधेर्यत्र निषेधस्य प्रधानता ।
प्रसज्यप्रतिषेधोऽयं क्रियया सह यत्र न ।। इत्याह – दृशीत्यादि । गमकत्वाद् बोधकत्वादभिधानाद् इति यावत् । अथ "अकर्तरि च कारके संज्ञायाम्" (४।५।४) इत्यत्र कारकग्रहणं प्रसज्यनसमासज्ञापनार्थमित्युक्तम् । तत्. कथमभिधानमाश्रीयते ? सत्यम् । तत्रापि गमकत्वमाश्रित्य सुखार्थं कारकग्रहणमित्युक्तमस्ति । अत्रापि तदेवोच्यते ।।१०३९।
[समीक्षा]
‘असूर्यम्पश्या, उग्रम्पश्य:' शब्दरूपों के सिद्ध्यर्थ दोनों ही व्याकरणों में खश् (निपातन भी ) प्रत्यय का विधान किया गया है । पाणिनि के दो सूत्र हैं – "असूर्यललाटयोद्देशितपोः, उग्रम्पश्येरम्मदपाणिन्धमाश्च' (अ० ३।२।३६, ३७) । यहाँ यह ज्ञातव्य है कि पाणिनि ने एक शब्द से खश् प्रत्यय किया है तथा दूसरे शब्द की सिद्धि निपातनविधि से की है । जबकि कातन्त्र में दोनों ही शब्द एक सूत्र द्वारा खश् प्रत्यय से सिद्ध किए गए हैं । इससे कातन्त्रीय वैशिष्ट्य सिद्ध होता है ।