________________
चतुर्थे कृत्प्रत्ययाध्याये तृतीयः कर्मादिपादः
२३१
[क० च०]
ह्वा० । ह्वाश्च वाश्च माश्च हावामाः तस्मानपुंसकेऽपि सूत्रत्वान्न ह्रस्वः । मीनातीति। नन् मीनातिमिनोत्योः कथं कप्रत्ययस्य बुद्धिस्थता शशविषाणादिवद् अत्यन्तासम्भवात्। न ह्यनयोः केनापि विधीयमानोऽत्र कप्रत्ययोऽस्ति येन बुद्धिस्थता ? सत्यम् । अत्र सूत्रे के बुद्धिस्थे सत्यण विधीयते, तस्य बाधकत्वात्। अतो मीनातिमिनोत्योर्मारूपाभावः, मीनातिमिनोत्योः क इति यथाश्रुतसम्बन्धः । यद् वा “कर्मण्यण्" (४।३।१) इत्यनेन भाविनापि बुद्धिविषयत्वादात्वे मारूपमस्तीति अनेन कथम् अण् न स्याद् इति पूर्वपक्षार्थः। मीनातीत्यादिसिद्धान्तस्यायमर्थः - अनेनाणि सति कप्रत्ययस्य बाधकत्वात् के बुद्धिस्थे सति मारूपाभाव: मारूपं निवर्तते इत्यर्थः, निमित्ताभावादिति शेषः । पूर्वेण क्रियमाणे तु नास्ति क्षतिरित्यनेन वर्णविचारः कृतः, वस्तुतः साध्यक्षतिर्नास्तीति ।।१००७।
[समीक्षा]
'स्वर्गह्वायः, तन्तुवायः, धान्यमायः' शब्दरूपों के सिद्धयर्थ दोनों ही व्याकरणों में 'अण' प्रत्यय का विधान किया गया है । पाणिनि का सूत्र है - "हावामश्च' (अ० ३।२।२) । अत: उभयत्र समानता ही है ।
[रूपसिद्धि]
१. स्वर्गह्वायः। स्वर्गम् + हृञ् + अण् + सि । स्वर्ग ह्वयते । ‘स्वर्गम्' के उपपद में रहने पर हृञ् स्पर्धा यां शब्दे च' (१।६१३) धातु से अण् प्रत्यय, “सन्ध्यक्षरान्तानामाकारोऽविकरणे" (३।४।२०) से एकार को आकार, "आयिरिच्यादन्तानाम्" (३।६।२०) से आकार को 'आयि' आदेश तथा विभक्तिकार्य ।
२. तन्तुवायः। तन्तुम् + वेञ् + अण् + सि । तन्तुं वयते । 'तन्तुम्' के उपपद में रहने पर 'वेञ् तन्तुसन्ताने' (१।६११) से अण् प्रत्यय आदि कार्य पूर्ववत् ।
___३. धान्यमायः। धान्यम् + मा + अण् + सि । धान्यं माति, मिमीते, मयते वा। 'धान्यम्' के उपपद में रहने पर ‘मा माने, माङ् माने, मेङ् प्रतिदाने' (२।२६, ८६; १।४६२) धातुओं से 'अण्' प्रत्यय आदि कार्य पूर्ववत् ।।१००७।
१००८. शीलिकामिभक्ष्याचरिभ्यो णः [४।३।३] [सूत्रार्थ
कर्म कारक के उपपद में रहने पर 'शीलि-कामि-भक्षि-आचर' धातुओं से 'ण' प्रत्यय होता है ॥१००८।
[दु० वृ०]
एभ्यः कर्मण्युपपदे णो भवति । शीलिभक्षी चुरादाविनन्तौ । कमेरिनङ् । मांसशीला, मांसकामा, मांसभक्षा । कल्याणमाचरति कल्याणाचारा स्त्री । अणि हि