________________
२३६
कातन्त्रव्याकरणम्
[दु० टी०]
नाम्नि० । नाममात्रे कर्मणि चाकर्मणि चेत्यर्थः । तेन ग्राममनुतिष्ठतीति ग्रामानुष्ठः। सोपसर्गादणेवेति । अनुपसर्गादिति । चकाराऽनुपसर्गादित्यनेन सम्बध्यते । अनुपमगांत सोपसर्गाच्चेत्यर्थः ।।१०१०।
[वि० प०]
नाम्नि०। नाममात्रे कर्मण्यकर्मणि चेत्यर्थः। अनुपसर्गादिति। एतत्तु तिष्ठतिग्रहणादेव लभ्यते। अन्यथा हि अधिकृताकारान्तद्वारेणैव सिद्धम्, अत: सोपसर्गादपि तिष्ठतेरेव नान्यस्माद् इत्याह – ग्राम इत्यादि। एवं ग्राममनुतिष्ठतीति ग्रामानुष्ठः।। १०१०।
[क० च०]
नाम्नि। चकारादाद इति वर्तते इत्याह – आकारान्तादिति। पञ्जिका नाममात्र इति। एतच्च नामग्रहणादेव लभ्यते। अन्यथा कर्मानुवृत्त्यैव सिद्धम्। एतच्चेत्ययमभिप्रायः - आतोऽनुपसर्गादित्यनुवृत्त्या नाम्न्युपपदेऽनुपसर्गादाकारान्तात् कप्रत्ययो भवन् स्थाधातोरपि भविष्यति किं स्थाग्रहणेन, नाम्नि चेति कुर्यात्। तस्मात् पृथक् पाठाद् आकारान्तादस्य वैपरीत्यं सूचितम्। तच्चानुपसर्गादिति विशेषणद्वारकमेव स्थाधातुं प्रति अनुपसर्गादिति। अत एवाह - तिष्ठतेरिति।। १०१०।
[समीक्षा]
'समस्थः, द्विपः, कच्छपः' इत्यादि शब्दरूपों के सिद्धयर्थ दोनों ही व्याकरणों में 'क' प्रत्यय का विधान किया गया है । पाणिनि का सूत्र है - "सुपि स्थ:” (अ० ३।२।४) । यह ज्ञातव्य है कि पाणिनीय सुबन्त के लिए कातन्त्रकार 'नाम' संज्ञा का व्यवहार करते हैं । अत: सामान्यतया उभयत्र समानता ही है ।
[रूपसिद्धि]
१. कच्छपः। कच्छ + पा + क + सि । कच्छेन पिबति । 'कच्छेन' इस नामपद के उपपद में रहने पर ‘पा पाने' (१।२६४) धातु से प्रकृत सूत्र द्वारा 'क' प्रत्यय, धातुघटित आकार का लोप तथा विभक्तिकार्य ।
२. द्विपः। द्वि + पा + क + सि । द्वाभ्यां पिबति । द्वि + पा + क + सि । नाम के उपपद में रहने पर 'क' प्रत्यय आदि कार्य पूर्ववत् ।।
३. समस्थः । सम + स्था + क + सि । समे तिष्ठति । नाम के उपपद में रहने पर 'ष्ठा गतिनिवृत्तौ' (१।२६७) धातु से 'क' प्रत्यय आदि कार्य पूर्ववत् ।
४. ग्रामसंस्थः । ग्राम + सम् + स्था + क + सि। ग्रामे संतिष्ठते। ‘ग्राम + सम्' के उपपद में रहने पर 'ष्ठा गतिनिवृत्तौ' (१।२६७) धातु से 'क' प्रत्यय आदि कार्य पूर्ववत्।।१०१०।
१. मतान्तरमेतत् । एतन्मते स्थाग्रहणाद् वाक्यार्थद्वयम् -- नाम्न्युपपदेऽनुपसर्गादाकारान्तात् क इत्येकम्।
अपरं तु नाम्न्युपपदेऽनुपसर्गाच्च स्थ इति, विशेषणविशेष्यभावस्य प्रयोक्तुरायत्तत्वात् । एवं चेत् स्वमते चकार इत्यादिपङ्क्तेरियं व्याख्याऽनुपसर्गात् सोपसर्गाच्च तिष्ठतेरित्यर्थः (टि०) ।