________________
४९
चतुर्थे कृत्प्रत्ययाध्याये प्रथमः सिद्धिपादः [विशेष वचन] १. 'म' इत्यकार उच्चारणार्थ: (दु० टी०) । २. अन्तग्रहणं सुखार्थम् (क० च०) । ३. अत्र नाश्रीयते असिद्धवद्भावः (क० च०) । [रूपसिद्धि]
१. नाडिन्धमः। नाडी + ध्मा + खश् + सि । नाडी धमति । 'नाडी' शब्द के उपपद में रहने पर 'ध्मा शब्दाग्निस यो गयोः' (१।२६६) धातु से "नाडीकरमुष्टिपाणिनासिकासु ध्यश्च' (४।३।३२) सूत्र द्वारा खश्, अन् विकरण “ध्यो धम:'' (३।६।७२) से ध्मा को 'धम' आदेश, ह्रस्व, मकारागम, अनुस्वार, पञ्चमवर्णादेश तथा विभक्तिकार्य ।
२. अङ्गमेजयः। अङ्ग + एजि + खश् + सि । अङ्गमेजयते । 'अङ्ग' शब्द के उपपद में रहने पर इन्प्रत्ययान्त ‘एन कम्पने' (१९७०) धातु से खश् प्रत्यय आदि कार्य पूर्ववत् ।
३. जनमेजयः। जन + एजि + खश् + सि । जनमेजयते । 'जन' शब्द के उपपद में रहने पर ‘एजि' धातु से खश् प्रत्यय आदि कार्य पूर्ववत् ।
४. अरुन्तुदः। अरुस् + तुद् + खश् + सि । अरुस्तुदति । 'अरुस्' शब्द के उपपद में रहने पर 'तुद व्यथने' (५।१) धातु से खश् प्रत्यय आदि कार्य पूर्ववत् ।।८७७।
८७८. सत्यागदास्तूनां कारे [४।१।२३] [सूत्रार्थ
'कार' शब्द के परे रहते उपपद में वर्तमान ‘सत्य-अगद-अस्तु' शब्दों के अन्त में मकारागम होता है ।।८७८।
[दु० वृ०]
सत्यादीनां कारशब्दे परे मोऽन्तो भवति । सत्यं करोतीति सत्यङ्कारः, एवम् अगदङ्कारः, अस्तुङ्कारः । उपोच्चारिपदानामपि कारे घञन्तेऽपीच्छन्ति । सत्यस्य कार: सत्यङ्कारः। एवमन्यत्रापि मकारवर्णागमो दृश्यते - लोकम्प्रीण:, भ्राष्ट्रमिन्धः, अग्निमिन्धः, भद्रकरणम्, उष्णङ्करणम् , मध्यन्दिनम् , श्यैनम्पाता, तैलम्पाता क्रीडा ।।८७८।
[दु० टी०]
सत्या०। उपोच्चारीत्यादि । नात्र सप्तम्युक्तानामेवोपपदत्वम् उपोच्चारिपदानामपीति असप्तम्युक्तानामपीति व्याख्यानात् । परैस्तु घअन्ते एवाद्रियते । सत्यङ्कारः समयकरणम्। अगदङ्कारो निर्विषीकरणम्। अस्तुङ्कारः प्रतिज्ञाकरणम्। अन्यत्र तु 'सत्यकार:, अगदकार:, अस्तुकार:' इति भवितव्यम्। रूढिवशात् सूत्रकारादय इव वस्तुविशेषा अभिधीयन्ते किमनया विचारण्येति । अन्यत्रापीत्यादि ।प्रीणनं प्रीणः लोकस्य प्रीण: लोकम्प्रीण: