________________
१७८
कातन्त्रव्याकरणम्
[विशेष वचन] १. कृत्प्रत्ययविधावुपसर्गाणां नामत्वं नास्ति (क० च०) । [रूपसिद्धि]
१. ब्रह्मोद्यम् - ब्रह्मवद्यम् । ब्रह्मन् - वद् + क्यप् + सि । ब्रह्मणो वदनम्। 'ब्रह्मणः' इस नाम = स्याद्यन्त पद के उपपद में रहने पर 'वद व्यक्तायां वाचि' (१।६१५) धातु से प्रकृत सूत्र द्वारा 'क्यप्' प्रत्यय, 'क्-प्' अनुबन्धों का प्रयोगाभाव, "स्वपिवचियजादीनां यणपरोक्षाशी:षु'' (३।४।३) से सम्प्रसारण, नलोप, गण तथा विभक्तिकार्य । 'य' प्रत्यय होने पर सम्प्रसारण के अभाव में 'ब्रह्मवद्यम्' रूप सिद्ध होता है ।
२. ब्रह्मोद्या-ब्रह्मवद्या। ब्रह्मन् - वद् + क्यप् + आ + सि । ब्रह्मणा उद्यते कथा। 'ब्रह्मणा' इस नाम के उपपद में रहने पर 'वद व्यक्तायां वाचि' (१।६१५) धातु से प्रकृत सूत्र द्वारा ‘क्यप् प्रत्यय, सम्प्रसारण, नलोप, गुण, स्त्रीलिङ्ग में 'आ' प्रत्यय, समानलक्षण दीर्घआलोप तथा विभक्तिकार्य । 'य' प्रत्यय होने पर 'ब्रह्मवद्या' रूप ॥९५९१
९६०. भावे भुवः [४।२।२१] [सूत्रार्थ
नाम पद (स्याद्यन्त) के उपपद में रहने पर भाव अर्थ में 'भू सत्तायाम्' (१।१) धातु से 'क्यप्' प्रत्यय होता है ।।९६०।
[दु० वृ०]
नाम्न्युपपदे भुवो भावे क्यब् भवति । ब्रह्मभूयं गतः, ब्रह्मत्वं गत इत्यर्थः । नाम्नीति किम् ? भव्यम्, प्रभव्यम् । भावग्रहणमुत्तरार्थम् इह सुखार्थं च ।।९६०।
[दु० टी०]
भावे० । भूरकर्मकस्तस्मात् कृत्यो भाव एव भविष्यति किं भावग्रहणेन । कर्मणि मा भूदिति कथं सकर्मकत्वम्, उपसर्गसम्बन्धात् । यथा सुखमनभवतीति प्राप्तिवचनस्य वा भवते: सकर्मकत्वम् । यथा सर्वं भवति उपास्यते समं राज्ञाम् । अन्ये च धातवोऽर्थान्तरे वर्तमानाः सकर्मका: अकर्मकाश्च दृश्यन्ते । यथा- वहति नदी, वहति भारम् इति ? सत्यम् । यत् प्राप्तिवचनस्य भवते: कर्म तत् कृत्यप्रत्ययान्तस्य सोपसर्गस्यैव भवति नानुपसर्गस्य । तत्र नामग्रहणेन तत्प्रतियोगिना व्यावृत्ति: सिद्धा । अन्य आह- न प्राप्त्यर्थो भवतिः, विशेषवाच्योऽर्थः प्रकरणबलादिना गम्यः । न चेह क्रियान्तरापेक्षया सकर्मकत्वमस्तेरपि प्रसङ्गात् सर्वं भवतीति क्रियाविशेषणं द्रष्टव्यम्। तदसदित्याह- भावेत्यादि। उत्तरत्र तु न क्रियते, इह सुखप्रतिपत्त्यर्थ एव फलम् ।।९६०।
[वि०प०] भावे० । भव्यम्, प्रभव्यमिति । स्वरान्तत्वाद् यप्रत्यये गुणे च "ओदौद्भ्यां