________________
कातन्त्रव्याकरणम्
[दु०वृ०]
प्राप्त: कालो यस्याः सा 'काल्या' इति संज्ञिता । प्रजननं प्रजनो गर्भग्रहणम। प्रजने प्राप्तकाला चेद् उपसति निपात्यते । उपस्रियते इत्युपसर्या गौः। ऋतुमतीत्यर्थः। उपसार्या अन्या ।।९५७।
[दु०टी०]
उप०। तद्धितव्युत्पतिवादी त्वाह-कालं प्राप्ता चेदित्यर्थे कालाद् यप्रत्ययः। उपस्रियते गर्भेण सम्बन्धः, ऋतुमतीति नोच्यते, प्रतिपत्तिगौरवात् । ऋतुशब्दस्य नानार्थतया तादृगर्थप्रतीतौ विलम्ब: स्यादिति भावः।।९५७।
[वि०प०] उप०। उपस्रियते गर्भण करॆति सम्बन्धः।।९५७। [समीक्षा
प्रथम गर्भ को प्राप्त कर लेने वाली गाय-वडवा आदि अर्थ के विवक्षित होने पर उपसर्या' शब्द की सिद्धि निपातन से दोनों ही व्याकरणों में की गई है । पाणिनि का सूत्र है- "उपसर्या काल्या प्रजने' (अ०३।१।१०४) ।अत: उभयत्र समानता ही है ।
[विशेष वचन] १.ऋतुमतीति नोच्यते, प्रतिपत्तिगौरवात् (दु०टी०) । [रूपसिद्धि]
१.उपसर्या । उप+सृ+य+आ+सि ।'उप' उपसर्गपूर्वक 'सृ गतौ' (२।७४) धातु से प्रकृत सूत्र द्वारा निपातन से 'य' प्रत्यय, गुणादेश, स्त्रीलिङ्ग में 'आ' प्रत्यय तथा विभक्तिकार्य ।।९५७।
९५८. अजयँ सङ्गते च [४।२।१९] [सूत्रार्थ] मैत्री या मित्रता के कर्ता होने पर 'अजय' शब्द निपातन से सिद्ध होता है ॥९५८। [दु०वृ०]
अजर्यमिति निपात्यते सङ्गते कर्तरि । न जीर्यतीति अजयम्, सङ्गतमित्यर्थः। सङ्गत इति किम् ? अजरिता कम्बलः।।९५८।
[दु० टी०]
अज०। सङ्गमनं सङ्गतम् मैत्री, तस्मिन् कर्तरीत्यर्थः। कर्ता चेत् सङ्गतशब्दवाच्योऽर्थो भवतीति ।।९५८।
[क० च०]
अज०। सङ्गतं युक्तम् । न जीर्यतीति यथाकथंचिद् वाक्यम् । वस्तुतः सम्बन्धमित्यर्थः । अजरितेति वयोहानि:, नान्यदित्यर्थः ॥९५८।