________________
१४८
कातन्त्रव्याकरणम्
[क० च०]
सप्तम्युक्तम् । अत्र क्वचिदधिकरणलप्तम्या, यथा "कर्तरि कृतः, भावे करणाधिकरणयोश्च, भावकर्मणोः कृत्यक्तखलाः '' (४।६।४६; ५।३, ९, ६।४७) क्वचिद् भावसप्तम्या "कर्मण्यण , करणेऽतीते यजः, शीङोऽधिकरणे च'' (४।३।१. ८१,१८) इत्यादि। तत्र कस्यात्र ग्रहणम्? अधिकरणसप्तम्युक्तग्रहणे "देवदत्तः पाचक:' इत्येव स्यात्, न तु 'पाचको देवदनः' इति “कर्तरि कृत्' इति कर्तृरूपसंज्ञायां प्राग् धातोरेव समास: स्यात् । भावसप्तम्युक्तग्रहणे तु इष्टसिद्धिरेव केवलं तत्र कारणाभाकान्? सत्यम्। विशेष्यविशेषणभावस्य प्रयोक्तुरायत्तत्वाद् भावसप्तम्युक्तमेव गृह्यते इति सूत्रे सप्तम्या उक्तं निर्दिष्टं यत् तत् सप्तम्यन्तनिर्दिष्टं प्रयोगे भवतु न भवतु वेति नियमो नास्तीति नग्नङ्करणम् इत्यादावप्युपपदत्वं सिद्धम्। अन्यथा साध्यत्वात् प्रयोग एव सप्तम्यन्तता स्यात्।
उपोच्चारि पदमुपपदम् इति, किं वा उपकारि पदम् उपपदमिति। तत्राद्यस्य ग्रहणे 'कर्तुं वा कश्चिदन्तर्वसति वसुमतीदक्षिणः सप्ततन्तुः' इत्यादौ मुरारिप्रयोगे कथं वसतीत्युपपदस्य समीपोच्चारित्वाभावात् तुम्? सत्यम्। व्याप्तिन्यायाद् उपकारि पदम् उपपदम् इत्येव उपकारित्वं तु सर्वत्रैव विद्यते इति व्यवधानेऽपि भवति । ननु धातोरित्युक्तं विभक्तिविपरिणामे गौरवं स्यादिति पञ्चम्यन्तानुकरणम् , तत् कथं सप्तम्यन्ततया विपरिणामः क्रियते। सत्यम्, प्रतिसूत्रे विपरिणामे गौरवं स्यात्, इदानीमत्रैवेति ।।९४१।
[समीक्षा
कृत्संज्ञक प्रत्यय धातुओं से विहित हैं, परन्तु कुछ प्रत्यय पदान्तरपूर्वक धातुओं से हों, तदर्थ 'उपपद' संज्ञा दोनों ही व्याकरणों में की गई है । पाणिनि का सूत्र है – “तत्रोपपदं सप्तमीस्थम्' (अ० ३।१।९२) । तदनुसार 'कुम्भकार:' में 'कुम्भ' की उपपदसंज्ञा होतो है और उपपद संज्ञा के कारण "उपपदमति' (अ० २।२:१९) से समास किया जाता है । महासज्ञा होने के कारण इसे अन्वर्थ माना जाता है -- उप=समीपे उच्चारितम् उपकारि पदं वा उपपदम् । अर्थात् धातु के समीप में उच्चरित होने वाले या धातु का उपकार करने वाले पद को उपपद' कहते हैं। अन्वथ होने के कारण 'महान्तं कम्भं करोति' में 'महान्तम्' की उपपद संज्ञा नहीं होती है । इस प्रकार उभयत्र समान्ता ही है।
[विशेष] १. क्रियायाश्चोपकारि द्वयमपि सम्भवति वाक्यार्थः पदार्थश्चेति (दु० टी०) । २. उपोच्चारि पदमुपपदम् ; किं वा उपकारि पदम् उपपदमिति (क च०) ।
३. व्याप्तिन्यायाद् उपकारिपदम् उपपदग् इत्येव, उपकारित्वं तु सर्वत्रैव विद्यते इति व्यवधानेऽपि भवति (क० च०) ।