________________
कातन्त्रव्याकरणम्
[समीक्षा]
'शृतं क्षीरम्, शृतं हवि:' इत्यादि शब्दरूपों के सिद्ध्यर्थ दोनों ही व्याकरणों में 'श्रा-श्रपि' के स्थान में 'शृ' आदेश निपातन से किया गया है। पाणिनि का सूत्र है"शृतं पाके” (अ०६।१।२७)। इस प्रकार प्राय: उभयत्र समानता है।
[विशेष वचन] १. क्षीरहविषोरेव, निपातनस्येष्टविषयत्वात् (दु० वृ०; वि० प०)। २. केचिच्चुरादिष्वपि श्रा पाके इति पठन्ति (दु० टी०)। ३. इनन्तस्य केवलस्य च समानार्थत्वमिति नोक्तदोषप्रसङ्गः (वि० प०)। ४. पाचनायामपि पाकोऽस्त्येव, इनन्तस्योभयार्थत्वात् (क० च०)। ५. धात्वर्थः फलम्। परसमवेतक्रियाजन्यफलभागित्वं कर्मत्वम् (क० च०)। ६. वत्करणं स्वाश्रयार्थम् (क० च०)। ७. वस्तुतस्तु कर्मकर्तृविषयाविति लुप्तोपमा बोध्या (क० च०)। ८. ऋषिप्रमाणात् (क० च०)। ९. निष्ठाधिकारादयं निपातो निष्ठायां परत इति बोध्यम् (क० च०) [रूपसिद्धि]
१. शृतं क्षीरम्। श्रा +.क्त + सि। 'श्रा पाके' (११५२४;२।२९) धातु से 'क्त' प्रत्यय, प्रकृत सूत्र से 'श्रा' को '' आदेश तथा विभक्तिकार्य।
२. शृतं हविः। श्रपि+क्त+सि। इन्-प्रत्ययान्त 'श्रपि' धातु से क्त-प्रत्यय, 'शृ' आदेश तथा विभक्तिकार्य।।८९९।।
९००. प्रस्त्यः सम्प्रसारणम् [४।१।४५] [सूत्रार्थ]
निष्ठासंज्ञक प्रत्यय के परे रहते 'प्र' उपसर्गपूर्वक ‘ष्ट्यै शब्दसंघातयोः' (१।२५७) धातु का सम्प्रसारण होता है।।९००।
[दु० वृ०]
प्रपूर्वस्य स्त्यायतेर्निष्ठायां सम्प्रसारणं भवति। प्रस्तीत:, प्रस्तीतवान्। प्रेण स्त्या इति समासात् प्रसंस्तीमः, प्रसंस्तीमवान्। अन्तरङ्गत्वात् कृते सम्प्रसारणे मत्वन्तु स्यादेव पक्षे।।९००।
[दु० टी०]
प्रस्त्यः। प्रात् प्रस्त्या इति पञ्चमीलक्षणस्तत्पुरुषः इति न्याय्यः पक्षः। प्रेणेत्यादि। प्रेण युक्तः स्त्या इति तृतीयासमासे व्यवधानेऽपि भवतीत्यर्थः। मतमेततैयासिकानाम्। अन्य आह-प्र एव पूर्वो यस्मात् तस्य तथा स्याद् इत्यधिकस्य मा भूदिति। 'सम्प्रस्त्यानः,