________________
१२८ ]
अष्टसहस्री
[ द्वि०प० कारिका ४१ स्वभावभेदरहितमेकमनशमिति वदतोपि निवारयितुमशक्तेः । चक्षुरादिबुद्धौ रूपादिव्यतिरिक्तस्य द्रव्यस्याप्रतिभासनाद्रूपादयो नानैवेति चेत्तहि वर्तिकामुखदाहादिकार्यानुमानबुद्धिषु विचित्रतच्छक्तिव्यतिरेकेण' प्रदीपक्षणस्यैकस्याप्रतिभासनान्नानाशक्तय' एव किं न स्युः ? [ शक्तिमतः पदार्थात् शक्तयो भिन्ना अभिन्ना वा ? इत्युभयत्र दोषारोपणे सति जैनाचार्याः उत्तरयति । ]
ननु च 'शक्तिशक्तिमतोरर्थान्तरानान्तरभावपक्षयोः शक्तीनामघटनान्न ताः परमार्थसत्यः संभाव्यन्ते । ततस्तासामर्थान्तरभावे व्यपदेशानुपपत्ति: संबन्धाभावात् । तेन तासामुपकार्योपकारकभावसंबन्धकल्पनायां यदि शक्तिमता शक्त्यन्तरैः शक्तय उपक्रियन्ते
___ बौद्ध-चक्षु आदि के ज्ञान में रूपादि से अतिरिक्त द्रव्य का प्रतिभास ही नहीं होता है अतः रूपादि नानाभेद वाले ही हैं।
जैन- यदि ऐसी बात है तब तो वर्तिका मुखदाह आदि कार्यरूप अनुमान ज्ञान में नाना भेदरूप उसकी शक्ति के बिना प्रदीप क्षण, एक रूप प्रतिभासित नहीं होता है । अतः उसमें भी नाना शक्तियाँ ही क्यों न जावें? [ शक्तिमान पदार्थ से शक्तियां भिन्न हैं या अभिन्न ? इन दोनों पक्षों में दोषारोपण करने पर जैनाचार्य
_ उत्तर देते हैं। ] बौद्ध-शक्तिमान् से शक्तियाँ भिन्न हैं या अभिन्न ? इस प्रकार से दो विकल्प के करने पर शक्तियों की व्यवस्था घटित नहीं होती है । अतः वे शक्तियाँ परमार्थ सत्-वास्तविक नहीं हैं । शक्तिमान् से शक्तियों को भिन्न मानने पर ये इस शक्तिमान् की शक्तियां हैं ऐसा व्यपदेश नहीं बन सकता है। क्योंकि शक्तिमान् और शक्तियों में सम्बन्ध का अभाव है । यदि उस शक्तिमान् के साथ उन शक्तियों का उपकार्य-उपकारक भाव कल्पित करते हैं।
1 कार्यकारणशक्तिः । ब्या० प्र०। 2 प्रत्यक्षेप्रतिभासमानः प्रदीपो विद्यत एवेति चेत्तत एव कर्कटिकादि द्रव्यस्यापि सद्भावोस्तुविकल्पबुद्धी प्रतिभासमानत्वात्तस्या वास्तवत्वमिति चेत् प्रदीपस्यावास्तवत्वमस्तु तत एव निर्विकल्पेपि प्रतिभासमानत्वस्य वास्तवत्वे रूपादिरहितं निरंशमवयवि इत्थं तत्र प्रतिभासमानं संप्रवर्त्तते इति वचनात् । कार्यकारणभावाभावः अर्थान्तरभूतयोः कार्यकारणभावसद्भावे एव आश्रयायिभावोभ्युपगम्यते । सौगतेन कार्यस्य कारणाश्रितत्वात् । कार्यकारणयोराश्रयायिभावस्य विरूपकार्यारम्भाय यदि हेतुसमागम इति कारिकाव्याख्याने वक्ष्यमाणत्वादन्यत्र सताभ्युपगम्यते ।दि० प्र०। 3 सौगतः । दि० प्र०। 4 परमार्थतस्तच्छक्तयः सम्भाव्यं ते इति वा पाठः । ब्या० प्र०। 5 तेन शक्तिमता तासां शक्तीनामुपकारः क्रियते । ताभिः सशक्तिमानुपकार्य इति विचारः क्रियते । यदि शक्तिमता अर्थेन शक्त्यन्तरः कृत्वा शक्तीनाम्पकारः क्रियते तहि अनवस्था नामदोषः स्यात् तानि शक्त्यन्तराणि अन्यानि अपेक्ष्यन्ते तानि चान्यानि एवं =अथवा शक्तिभिः च शक्तिभिरुपकारे क्रियमाणे तस्य शक्तिमतोनेकोपकार्यरूपत्वमापद्यते । ततः शक्तिमतः सकाशात् शक्तिमदुपकार्यरूपाणां शक्तीनां भेदे सति तस्योपकाराभावात् । तस्य द्रव्यस्य इमाः शक्तयः इति व्यपदेशो नोपपद्यते तदवस्था कोर्थः संबंधाभावात तरूपकार्यरूपान्तरः लस्य शक्तिमत: उपकारकारणे अनवस्थादोष एव । दि० प्र० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org