Book Title: Ashtsahastri Part 3
Author(s): Vidyanandacharya, Gyanmati Mataji
Publisher: Digambar Jain Trilok Shodh Sansthan

Previous | Next

Page 678
________________ * प्रशस्तिः * सिद्धान्नत्वाहश्चापि सन्मति हृदि धारये। श्रुतदेवीं मुनीन्द्रांश्च सर्वान् संस्तौमि सिद्धये ।।१।। शासनं वीरनाथस्य वर्तते भुवि सांप्रतम् । गौतमादिमहर्षीणाममुवीचिपरम्परा ॥२॥ कुन्दकुन्दगणी जातः एतस्यां सूरिसुंगवः । तस्य नाम्ना प्रसिद्धोऽभूदन्वयः जगतीतले ॥३॥ तथा च मूलसंधेऽस्मिन् कुन्दकुन्दान्वयो महान् । बलात्कारगणः ख्यातः शारदागच्छ इत्यपि ।।४॥ एतस्यां मणिमालायां संजातौ संघनायकः। शांतिसागरनामासो चारित्रचक्रभृत् महान् ॥५॥ पट्टाधीशोऽस्य विख्यातो गुरुः श्री वीरसागरः । यस्मात् ज्ञानमती ज्ञाता ह्यल्पज्ञाहं किलार्यिका ॥६॥ श्री देशभूषणः सूरिर्ममाद्यो विश्रुतो गुरुः । यत्प्रसादात् गृहं त्यक्त्वा लब्धं प्राक् क्षुल्लिकावतम् ।७। गुरोर्भक्त्या सरस्वत्याः प्रसादाच्च मया मनाक् । शास्त्रमधीत्य शिष्याणामध्यापनरताभवम् ॥८॥ मुनयोऽप्यार्थियाश्चापि ह्यनेके ब्रह्मचारिणः । विद्यां शिक्षां गृहीत्वा मत् कुर्वन्तीह प्रभावनाम् ॥६॥ क्रमेऽस्मिन्नध्कयनस्य जयपुराख्ये पत्तने । अष्टसहस्रीग्रन्थस्यानुवादश्चाप्यारभ्यत ॥१०॥ मरूप्रदेशके ग्रामेऽस्ति टोडारायसिंहके। अनुवादं च कुर्वन्त्या पार्श्वनाथजिनालये ॥११॥ रसविष्णुदिशायुग्मे वीराब्दे विश्रुते शुभे । पौषमासि सिते पक्षे द्वादश्यां शुक्रवासरे ॥१२॥ चित्ते जिनेंद्रमाधाय मातरं च सरस्वतीम् । जिनबिम्बस्य सानिध्येऽनुवादः पूर्यते मया ॥१३॥ वीरसिन्धुगुरोः पश्चात् तच्छिष्यः तपसान्वितः । तत्पट्टाचार्यवर्योऽभूत् मुनिः श्रीशिवसागरः ॥१४।। तत्पट्टे सूरिवर्योऽभूत् साधुः श्रीधर्मसागरः। गुरोः श्रीवीरसिन्धोश्च द्वितीयः शिष्य एव हि ॥१५।। पौषमासि च पूर्णायां धर्मसागरसन्निधौ। तस्यैवाचार्यवर्यस्य जन्मतिथिमहोत्सवे ॥१६॥ अनुवादितग्रंथोऽयं शिविकायां निवेशितः। अर्हद्रथेन साधं वै, शोभायात्रा बभौ तदा ।।१७।। श्रुतस्कंधविधानं च कृत्वा भाक्तिकश्रावकाः । चतुःसंघस्य सानिध्ये धर्मप्रभावना व्यधुः ॥१८॥ स्थेयादष्टसहस्रीयं भाषा टीका समन्विता। विदुषां हृदि नंद्याच्च दद्यात् ज्ञानमति श्रियम्॥१६॥ यावज्जिनेंद्रधर्मोऽयं तिष्ठेत् सौख्यप्रदो भुवि । तावन्महानसौ ग्रन्थो विद्येत ज्ञानभास्करः ॥२०॥ इन्द्रवज्रा छंदः स्याद्वादचितामणिनामधेया, टीका कृतेयं स्वयमल्पबुद्धयाः सम्यक्त्वशुद्ध्यै भवतात् सदा मे, चितामणिः स्याज्जगते च मह्यम् ॥२१॥ 卐 इति शुभं भूयात् । म Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 676 677 678 679 680 681 682 683 684 685 686 687 688