Book Title: Ashtsahastri Part 3
Author(s): Vidyanandacharya, Gyanmati Mataji
Publisher: Digambar Jain Trilok Shodh Sansthan

Previous | Next

Page 684
________________ देवागमस्तोत्रं - आप्तमीमांसा तृतीय परिच्छेद षष्ठ परिच्छेद सिद्धं चेद्धेतुतः सर्वं न प्रत्यक्षादितो गतिः । सिद्धं चेदागमात्सर्व, विरुद्धार्थमतान्यपि ॥ ७६ ॥ विरोधान्नोभयैकात्म्यं स्याद्वादन्यायविद्विषाम् । अवाच्यतैकांतेऽप्युक्तिर्नावाच्यमिति युज्यते ॥७७॥ वक्तर्याप्ते यद्वेतोः साध्यं तद्धेतुसाधितं । आप्ते वक्तरि तद्वाक्यात्साध्यमागमसाधितम् ॥७८॥ सप्तम परिच्छेद अंतरंगार्थतैकांते, बुद्धिवाक्यं मृषाखिलम् । प्रमाणाभासमेवातस्तत् प्रमाणादृते कथम् ॥७६॥ साध्यसाधनविज्ञप्तेर्यदि विज्ञप्तिमात्रता । न साध्यं न च हेतुश्च प्रतिज्ञाहेतुदोषतः ॥८०॥ बहिरंगार्थतकांते, प्रमाणाभासनिह्नवात् । सर्वेषां कार्यसिद्धिः स्याद्, विरुद्धार्थाभिधायिनाम् ॥ ८१ ॥ विरोधान्नोभयैकात्म्यं, स्याद्वादन्यायविद्विषाम् । अवाच्यतैकांतेऽप्युक्तिर्नावाच्यमिति युज्यते ॥८२॥ भावप्रमेयापेक्षायां प्रमाणाभासनिह्नवः । बहिः प्रमेयोपक्षायां प्रमाणं तन्निभं च ते ॥८३॥ जीवशब्दः सबाह्यार्थः, संज्ञात्वाद्धेतुशब्दवत् । मायादिभ्रान्तिसंज्ञाश्च, मायाद्यैः स्वैः प्रमोक्तिवत् ॥८४॥ बुद्धिशब्दार्थ संज्ञास्तास्त्रिस्त्रो बुद्ध्यादिवाचिकाः । तुल्या बुद्ध्यादिबोधाश्च, त्रयस्तत्प्रतिबिम्बकाः ॥८५॥ वक्तृश्रोतृप्रमातृणां बोधवाक्यप्रमाः पृथक् । भ्रान्तावेव प्रमाभ्रान्तौ बाह्यार्थी तादृशेतरौ ॥ ८६ ॥ बुद्धिशब्दप्रमाणत्वं बाह्यार्थे सति नासति । सत्यानृतव्यवस्थैवं, युज्यतेऽर्थाप्त्यनाप्तिषु ॥८७॥ अष्टम परिच्छेद देवादेवार्थसिद्धिश्चेदेवं पौरुषतः कथं । दैवतश्चेदनिर्मोक्षः, पौरुषं निष्फलं पौरुषादेव सिद्धिश्चेत्, पौरुषं दैवतः कथं । पौरुषाच्चेदमोघं स्यात्, सर्वप्राणिषु विरोधान्नोभयैकात्म्यं, स्याद्वादन्यायविद्विषां । अवाच्यतैकांतेऽप्युक्तिर्नावाच्यमिति अबुद्धिपूर्वापेक्षायामिष्टानिष्टं स्वदैवतः । बुद्धिपूर्वव्यपेक्षायामिष्टानिष्टं [ ६०५ Jain Education International नवम परिच्छेद 1 पापं ध्रुवं परे दुःखात्, पुण्यं च सुखतो यदि । अचेतनाकषायौ च बुध्येयातां निमित्ततः ॥६२॥ पुण्यं ध्रुवं स्वतो दुःखात्पापं च सुखतो यदि । वीतरागो मुनिविद्वांस्ताभ्यां युञ्ज्याम्मित्ततः ॥१३॥ विरोधान्नोभयैकात्म्यं, स्याद्वादन्यायविद्विषाम् । अवाच्यतैकांतेऽप्युक्तिर्नावाच्यमिति युज्यते ॥४॥ विशुद्धिसंक्लेशांगं चेत्, स्वदरस्थं सुखासुखम् । पुण्यपापात्रवो युक्तो, न चेद् व्यर्थस्तवार्हतः ॥ ६५॥ For Private & Personal Use Only भवेत् ॥ ८८ ॥ पौरुषं ॥ ८६ ॥ युज्यते ॥ ६०॥ स्वपौरुषात् ॥१॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 682 683 684 685 686 687 688