Book Title: Tattvanyaya Vibhakar Part 01
Author(s): Labdhisuri, Bhadrankarsuri, Vikramsenvijay
Publisher: Labdhibhuvan Jain Sahitya Sadan
View full book text
________________
१४४
तत्त्वन्यायविभाकरे
હવે દેશને કહે છે કેભાવાર્થ- પ્રદેશ અને સ્કંધના મધ્યસ્થ સ્કંધના ભાગો “દેશ' કહેવાય છે.
વિવેચન- અહીં કહેવાનો ભાવ એવો છે કે- યમુક આદિ ક્રમથી અનંત અનંત પરમાણુક પર્વત વિશિષ્ટ સંઘાતથી પેદા થયેલ સ્કંધો હોય છે.
ત્યાં પોતપોતાના સ્કંધોમાં પ્રદેશ રૂપ એક પરમાણુને અને પૂર્ણ સ્કંધને છોડીને અંધથી છૂટા નહિ થયેલા - माहि ३५ ५२मा संघातो 'हे' उपाय छे.
તે સ્કંધથી છૂટો નહિ થયેલો એક પરમાણુ દેશ કહેવાતો નથી, કેમ કે તે છૂટો નહિ થયેલો પરમાણુ પ્રદેશ' તરીકે કહેવાય છે. જેમ કે- ઘડાનો કાંઠો, મધ્ય ભાગ અને પાછળનો ભાગ વગેરે દેશ કહેવાય છે, જયારે ઘડાથી છૂટા થયેલા કાંઠા વગેરે બીજા સ્કંધ રૂપે કહેવાય છે. अथ प्रदेशमाह
केवलप्रज्ञागम्यस्कन्धानुवतिसूक्ष्मतमो भागः प्रदेशः । १८ । केवलप्रज्ञेति । योऽयं भागोऽतितरां सूक्ष्मः स्कन्धादपृथग्भूतः केवलप्रज्ञयैव गम्यस्स प्रदेश इत्यर्थः । यथा घटस्यापृथग्भूतस्सुसूक्ष्म एकः परमाणुभागः । स्कन्धोऽयं भेदात्सङ्घाताद् भेदसङ्घाताभ्याञ्च जायते, तत्र भेदः संहतानां बाह्याभ्यन्तरपरिणामकारणसन्निधाने सति विदारणं, यथा पूर्णस्कन्धादेकस्याणोर्भेद एकाणुभेदात्तन्न्यूनस्कन्धो जायते, एवं द्वित्र्यादिपरमाणुभेदक्रमेण यावद्विप्रदेशस्कन्धैर्भाव्यम् । पृथग्भूतानामेकीभावः संघातः, यथा द्वयोः परमाण्वोस्संघातात् द्विप्रदेशो द्विप्रदेशस्याणोश्च संघातात्त्रिप्रदेशस्स्कन्ध इत्यादिप्रकारेण जायते, एकसामयिकाभ्यां भेदसंघाताभ्याञ्च द्विप्रदेशादयः स्कन्धा उत्पद्यन्ते यथाऽन्यस्य परमाणोस्संघातेनान्यतः स्कन्धाद्भेदेनेति । एवं परिप्राप्तबन्धपरिणाम एव स्कन्धः, तत्र च केषाञ्चित्स्कन्धानां प्रयोगनिरपेक्षो वैस्रसिक आदिमदनादिमद्भिन्नः, तत्राद्यो विद्युदुल्कामेघादिविषयः स्निग्धरूक्षगुणनिमित्तः, अपरश्च धर्माधर्माकाशविषयः, केषाञ्चिच्च स्कन्धानां जीवप्रयोगसहचरिताचेतनद्रव्यपरिणतिलक्षणो यथा स्तम्भकुम्भादिविषयः । तथा स्कन्धा अन्त्यस्थौल्या आपेक्षिकसौम्यस्थौल्या इत्थमनित्थंसंस्थानाश्च, यथा निखिललोकव्यापी महास्कन्धोऽन्त्यस्थूलतावानवयवविकासमपेक्ष्यैवं बोध्यम्, प्रवचने त्वस्य सूक्ष्मपरिणामत्वमुक्तम् । बदरादौ चामलकापेक्षया बदरं सूक्ष्मं चणकापेक्षया च स्थूलमिति, वृत्तव्यस्रचतुरस्राऽऽयतपरिमण्डलादिरूपमित्थं संस्थानं, ततोऽन्यदनित्थं संस्थानं, वृत्तादिरूपेण निरूपयितुमशक्त्यत्वादिति ॥