Book Title: Tattvanyaya Vibhakar Part 01
Author(s): Labdhisuri, Bhadrankarsuri, Vikramsenvijay
Publisher: Labdhibhuvan Jain Sahitya Sadan
View full book text ________________
सूत्र - ३-४, दशमः किरण:
७०३
विद्यमानार्थाभिधायकत्वमाप्तोपदेशात्, असमस्तपदत्वहेतोरनुमानाद्वा निरूपणमित्यर्थः, अनुमानप्रयोगश्च मोक्षशब्दस्सिद्धशब्दो वा विद्यमानार्थाभिधायी, असमस्तत्वे सति पदत्वाद्घटादिपदवदिति । शशशृङ्गादिपदे व्यभिचारवारणाय विशेषणम् । अनर्थकवर्णसमुदाये व्यभिचारवारणाय विशेष्यम् । अत्र पदत्वं न सुप्तिङन्तत्वरूपं, द्योतकेषु निपातेषु तादृशपदत्वसत्त्वेन साध्याभावाद्व्यभिचारापत्तेः । किन्तु स्वार्थप्रत्यायने शक्तिमद्यत्पदान्तरघटितवर्णान्तरापेक्षणरहितं परस्परस्वघटितवर्णसहकारिवर्णसङ्घातरूपं तदेव चासमस्तं पदं, राजपुरुष इत्यादिसमस्ते पदत्वव्यवहारस्तु सुप्तिङन्तत्वात्, न तूक्तलक्षणतः, स्वार्थप्रत्यायने समस्तपदसमुदाये शक्त्यभावात् । यदि चैकदेशसमुदाययोः कथञ्चित्तादात्म्येन तत्रापि स्वार्थप्रत्यायनशक्तिमत्त्वं वर्त्ततेऽन्यथाऽर्थवत्त्वाभावे नामसंज्ञाऽप्रवृत्तौ विभक्त्यनुपपत्तिस्स्यादिति विभाव्यते तदापि न तस्य पदत्वं, पदान्तरघटितवर्णान्तरसापेक्षत्वात् । न च पदलक्षणे पदस्य घटितत्वेनात्माश्रयापत्तिरिति वाच्यम् । पदलक्षणे सुप्तिङन्तरूपस्य पदस्यैवान्तर्गतत्वात् । अत एव हि घटादिशब्दानां पदत्वमन्यथा घटधातूत्तरस्याप्रत्ययस्य कर्थकत्वेन शक्तिमत्त्वात्पदत्वप्राप्तौ पदान्तरघटितवर्णान्तरापेक्षत्वेन पदत्वं न स्यात्, तथा चेदृशं पदत्वं न शशशृंगादिशब्देषु वर्तते पदान्तरघटितवर्णान्तरापेक्षत्वात्, अर्थवत्त्वं पुनरस्त्येव, अन्यथा नामसंज्ञाऽप्राप्त्या विभक्त्यनुत्पत्तिप्रसङ्गः स्यात्, एवञ्च मोक्षशब्दस्य योऽयं विद्यमानोऽर्थस्स एव कृत्स्नकर्मक्षयरूपो मोक्ष इति निश्चीयते । यद्यपि मोक्षशब्दस्य विमुक्तिरूपस्य कारागारान्मोक्षो जात इत्यादि प्रतीत्या प्रसिद्धिरस्ति तथापि सर्वबन्धक्षयस्यैव तत्पदस्य मुख्यार्थतया तस्य सिद्धिर्विवक्षिता, उक्तप्रतीतौ तु यत्किञ्चिद्वन्धविमुक्तिवाचकत्वं मोक्षपदस्य लाक्षणिकं, असति प्रतिबन्धके शब्दार्थसंकोचस्यान्याय्यत्वात् । अतो न सिद्धसाधनत्वापत्तिः । तथा च तादृशपर्यायवतां सिद्धानामपि विद्यमानत्वं सिद्धमेव, पर्यायमात्रस्य साधिकरणत्वादिति मन्वानो गत्यादिचतुर्दशमार्गणासु ते क्व सन्तीत्याशंकायां मनुजादिगत्यादावेव तेषां सिद्धिरिति शास्त्रतो यनिरूपणं सैव सत्पदप्ररूपणेति दर्शयति गत्यादीत्यनेन वाक्येन । तथा च सिद्धसत्ताया अनुमानेनागमेन वा गत्यादिमार्गणाद्वारेषु सिद्धसत्ताया आगमेन निरूपणं सत्पदप्ररूपणेति योजना कार्या, प्रथमयोजनाया भावस्तु प्रदर्शित एव, द्वितीययोजनाया भावमाख्यातुं गत्यादिमार्गणा विभागेन स्वरूपेण च दर्शयति -
ભાવાર્થ - ગતિ આદિ માર્ગખાદ્વારોમાં સિદ્ધસત્તાની અનુમાનથી કે આગમથી નિરૂપણા, એ સત્પદપ્રરૂપણા.
Loading... Page Navigation 1 ... 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814