Book Title: Tattvanyaya Vibhakar Part 01
Author(s): Labdhisuri, Bhadrankarsuri, Vikramsenvijay
Publisher: Labdhibhuvan Jain Sahitya Sadan

View full book text
Previous | Next

Page 785
________________ ७४८ तत्त्वन्यायविभाकरे ૦ સિદ્ધો સદા અનાહારકો હોય છે, એવો ભાવ છે. इत्येवं चतुर्दशमूलमार्गणोत्तरभेदानाख्यायाऽऽसु सिद्धसत्ता क्वेति निरूपयति - ......... तत्र नरगतिपञ्चेन्द्रियजातित्रसकाय भव्यसंज्ञियथाख्यातक्षायिकानाहारककेवलज्ञानकेवलदर्शनेषु मोक्षो न शेषेषु ।२६। तत्रेति । चतुर्दशमार्गणावान्तरभेदमधिकृत्येत्यर्थः । नरगतीति, अनन्तरपश्चात्कृतनयमधिकृत्य नरगतौ मुक्तिः प्राप्यते न शेषासु गतिषु, पाश्चात्यमेकान्तरं गतिविशेषमधिकृत्य पुनस्सामान्यतश्चतसृभ्योऽपि गतिभ्य आगतस्सिद्ध्यति । सिद्धप्रस्तावात्सिद्ध इत्यनुक्त्वा मोक्षपदग्रहणं कर्मक्षयसिद्धैरिहाधिकारस्तेषामेव मोक्षपर्यायेणानन्यत्वादिति सूचनाय, तेन कर्मशिल्पविद्यामन्त्रयोगागमार्थयात्राभिप्रायतपः सिद्धानां व्युदासः । अनन्तरैकान्तरपश्चात्कृतौ नयौ नैगमसङ्ग्रहव्यवहाररुपौ सकलार्थग्राहित्वात्, वर्तमानकालार्थग्रहकर्जुसूत्रशब्दसमभिरूदैवम्भूतनयरूपप्रत्युत्पन्नभावापेक्षया तु सिद्धस्सिद्धगतौ सिद्धयति । पञ्चेन्द्रियजातीति, अनन्तरपश्चात्कृतजात्यपेक्षयेदम्, नर एव सन्यतः सिद्ध्यत्यत एव पञ्चेन्द्रियजातावेवेति भावः, एकान्तरितपश्चात्कृतजात्यपेक्षया त्वन्यतमस्यां जातौ प्रत्युत्पन्नभावापेक्षया च नैकस्यामपीन्द्रियमार्गणायां सर्वथा शरीरपरित्यागेनैव सिद्धत्वपर्यायोत्पत्तेरिति भावः । त्रसकायेति, अत्रापि पूर्ववदेव भाव्यम् । भव्येति, अनन्तरैकान्तरितपश्चात्कृतनयापेक्षयेदम्, भव्यानामेव सिद्धिर्बोध्याऽभव्यानान्तु कथमपि सिद्ध्यभावात्, प्रत्युत्पन्ननयापेक्षया तु सिद्धो न भव्यो नाप्यभव्य इति । संज्ञीति, पूर्ववदेव । यथाख्यातेति, अनन्तरपश्चात्कृतनयापेक्षयेदम्, एकान्तरपश्चात्कृतनयापेक्षया तु केचित्सामायिक सूक्ष्मसम्पराययथाख्यातचारित्रिणः, केचित्सामायिकच्छेदोपस्थापनसूक्ष्मसम्पराययथाख्यातचारित्रिणः केचित्सामायिकपरिहारविशुद्धिकसूक्ष्मसम्पराययथाख्यातचारित्रिणः केचित्तु सामायिक छेदोपस्थापनीयपरिहार विशुद्धिकसूक्ष्मसम्पराययथाख्यातचारित्रिणः, तीर्थकृतस्तु सामायिक सूक्ष्मसम्पराययथाख्यातचारित्रिण एव । प्रत्युत्पन्ननयापेक्षया सिद्धो न चारित्री नाप्यचारित्रीति । क्षायिकेति, क्षायिकं द्विविधं शुद्धमशुद्धञ्च, तत्र क्षायिकी शुद्धाऽपायसद्रव्यरहिता भवस्थकेवलिना सिद्धानाञ्च शुद्धजीवस्वभावरूपा सम्यग्दृष्टिः साद्यपर्यवसाना, अशुद्धा चापाय १. अष्टविधकर्मदहनानन्तरं सिद्धस्यैव सतस्सिद्धत्वमुपजायते नासिद्धस्य, तदात्मनो हि स्वाभाविक सत्सिद्धत्वमनादिकर्मावृतं तदावरणविगमेनाविर्भवत्येव न पनरसदपजायते न वसतः खरविषाणादेर्जन्म भवति सिद्धस्य सिद्धत्वं सद्भावरूपमुपजायते न तु प्रदीपनिर्वाणकल्पमभावरूपमिति भावः ॥२. यस्य हि सिद्धि विनी स भव्य उच्यते, सिद्धस्य तु न सा भाविनी साक्षात्सञ्जातत्वात, ततोऽसौ न भव्यो नाप्यभव्य इति भावः ॥

Loading...

Page Navigation
1 ... 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814