Book Title: Tattvanyaya Vibhakar Part 01
Author(s): Labdhisuri, Bhadrankarsuri, Vikramsenvijay
Publisher: Labdhibhuvan Jain Sahitya Sadan
View full book text ________________
७५८
तत्त्वन्यायविभाकरे
૦ જ્ઞાન-દર્શન આદિ ક્ષાયિકભાવમાં જીવત્વરૂપ પારિણામિક ભાવમાં સિદ્ધોનું રહેવું છે. ભવ્યત્વ આદિમાં સિદ્ધો નથી, કેમ કે-ભવ્યત્વ આદિનો અભાવ છે. એવા અભિપ્રાયથી કહે છે કે 'तेषामिति' - 'भावद्वयमिति.' अर्थात् ते सिद्धोने क्षायिङ भने पारिशाभि९३५ मे भावो होय छे.
-
अधुनाऽल्पबहुत्वद्वारमाह -
कतमस्मिन् वेदे सिद्धा अल्पाः कतमस्मिंश्च बहव इति विचारोऽल्पबहुत्वद्वारम् । नपुंसके स्तोकाः स्त्रीपुरुषयोः क्रमतः संख्येयगुणा विज्ञेयाः । ३४ ।
कतमस्मिन्निति । पुंस्त्रीनपुंसकभेदभिन्ने वेदे कुत्राल्पाः कुत्र वा बहव इत्याशङ्कायां यो विचारस्तदल्पबहुत्वद्वारमित्यर्थः, यद्यपि सिद्धानां पूर्वमवेदत्वमुक्तं तथा चायं विचारो न सम्भवति तथाप्यव्यवहितपूर्वनयापेक्षयाऽयं विचारो बोध्यः । उत्तरयति नपुंसक इति नपुंसके सर्वस्तोकाः, स्त्रीवेदे संख्येयगुणास्तेभ्योऽपि पुरुषसिद्धास्संख्येयगुणा इत्यर्थः । पुरुषाणामष्टशतं स्त्रीणां विंशतिर्दश नपुंसकानाम्, इदञ्च ये पुरुषेभ्य उद्धृताः पुरुषा एव जायन्ते तेषामष्टशतं बोध्यम्, ये च पुरुषेभ्य उद्धृताः स्त्रियो नपुंसका वा जायन्ते ये च स्त्रीभ्य उद्धृताः पुरुषा नपुंसका वा जायन्ते ये तु नपुंसकेभ्यः उद्धृता नपुंसकाः पुरुषास्स्त्रियो वा जायन्तेऽष्टस्वेतेषु भङ्गेषु प्रत्येकं दश दश भवन्तीति भावः । अत्र पुनस्ते सिद्धा अव्यवहितपूर्वपर्यायनयावलम्बनेन क्षेत्रकालगतिलिङ्गतीर्थचारित्रबद्धज्ञानावगाहान्तरसंख्याल्पबहुत्वैर्विचार्यन्ते तत्र तीर्थलिङ्गबुद्धद्वाराण्याश्रित्य मूलकृदेवानुपदं विवेचयति शेषापेक्षया तूच्यते क्षेत्रतस्सार्धद्वितीयद्वीपसमुद्रद्वयलक्षणे मनुष्यक्षेत्रे तिर्यग्लोके सिद्धत्वं लभते जन्मसंहरणापेक्षया, अधोलोकेऽधोलौकिकेषु ग्रामेषु, ऊर्ध्वलोके तु पाण्डुकवनादौ, तीर्थकृतः पुनः पञ्चदशसु कर्मभूमिषु न शेषासु, व्याघातासम्भवादिति I कालतः-उत्सर्पिण्यां जन्माङ्गीकृत्य द्वितीयतृतीयचतुर्थारकेषु, सिद्धिगमन्तु तृतीयचतुर्थयोरेव, अवसर्पिण्यान्तु तृतीयचतुर्थपञ्चमारकेषु सिद्ध्यति तत्र जातस्य सर्वथा सिद्ध्यनर्हत्वात्, व्याघातापेक्षया तु त्रिष्वप्युत्सर्पिण्यादिषु सिद्ध्यति । तीर्थकृतां पुनरवसर्पिण्यामुत्सर्पिण्याञ्च जन्म सिद्धिगमनं च सुषमंदुष्षमादुष्षमसुषमारूपयोरेवारकयोर्वेदितव्यम् । गतितः- मनुष्यगतावेव न शेषासु प्रोक्तमेवेदं मूले । व्यवहितप्राक्तन
१. तत्रापि निर्व्याघातेन पञ्चदशसु कर्मभूमिषु व्याघातेन समुद्रनदीवर्षधरपर्वतादावपि विज्ञेयम् ॥ २. यथा भगवान् ऋषभस्वामी सुषमदुःषमारकपर्यन्ते समुदपादि, एकोननवतिपक्षेषु शेषेषु सिद्धिमगमत्, वर्धमानस्वामी तु भगवान् दुःषमसुषमारकपर्यन्तेषु एकोननवतिपक्षेषु शेषेषु सिद्धिसौधमध्यमध्यास्तेति ॥ उत्सर्पिण्यां चतुर्विंशतितमस्तीर्थकरस्सुषमदुष्षामायामेकोननवतिपक्षेषु व्यतिक्रान्तेषु जन्मासादयति, एकोननवतिपक्षाधिकचतुरशीतिपूर्वलक्षातिक्रमे च सिद्ध्यतीति ॥
Loading... Page Navigation 1 ... 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814