Book Title: Tattvanyaya Vibhakar Part 01
Author(s): Labdhisuri, Bhadrankarsuri, Vikramsenvijay
Publisher: Labdhibhuvan Jain Sahitya Sadan

View full book text
Previous | Next

Page 809
________________ ७७२ तत्त्वन्यायविभाकरे सम्यक्श्रद्धेति । प्रशंसाथै सम्यगिति निपातस्तत्त्वञ्च श्रद्धायां यथावस्थितार्थपरिच्छेदित्वं परापेक्षामन्तरोपजायमानत्वं वा, अथवा समञ्चति सर्वान् द्रव्यपर्यायान् व्याप्नोतीति सम्यक् द्रव्यपर्यायनयद्वयापेक्षया जीवादयोऽस्तित्र यदा दृष्टिः प्रवर्त्तते तदा रुचिरूपां श्रद्धामञ्चति अतः सम्यक्, द्रव्यपर्यायनयद्वयापेक्षया जीवादयोऽस्तित्र यदा दृष्टिः प्रवर्त्तते तदा रुचिरूपां श्रद्धामञ्चति अतः सम्यक्, सा चासौ श्रद्धा च सम्यक्श्रद्धा अविपरीतार्थग्राहिणी रुचिरित्यर्थः । समाख्यातेत्यग्रेतनेनान्वयः । कथं समाख्यातेत्यत्राह सविभागा सलक्षणेति लक्षणविभागाभ्यां निरूपितेति भावः । निरूपणेऽस्मिन् श्रोतृजनग्राह्यतासम्पादनाय प्रामाणिकत्वमस्याविष्करोति, यथाशास्त्रमिति । शास्त्रमनुसृत्यैव प्रोक्ता न तु कल्पनयेति भावः । ग्रन्थस्यास्य प्रणयने हेतुं दर्शयति संक्षेपेणेति । आगमानामतिविस्तृतत्वेन व्युत्पन्नकल्पानां सुगमतया आगमार्थबोधार्थमयं प्रयास इति भावः । तदिदं प्ररूपणं शास्त्रानुसारित्वात्सङ्ग्रहरूपत्वाच्च विपश्चितां विवेचनाचतुराणां परित्यक्तमनोमालिन्यानां मोदायानन्दाय भवेदेवेत्याशयमाह स्यान्मोदाय विपश्चितामिति ॥ इति तपोगच्छनभोमणिश्रीमद्विजयानन्दसूरीश्वरपट्टालङ्कारश्रीमद्विजयकमलसूरीश्वर चरणनलिनविन्यस्तभक्तिभरेण तत्पट्टधरेण विजयलब्धिसूरिणाविनिर्मितस्य तत्त्वन्यायविभाकरस्य स्वोपज्ञायां न्यायप्रकाश व्याख्यायां मोक्षनिरूपणनामा दशमः किरणः समाप्तः ॥ समाप्तोऽयं सम्यक्श्रद्धाख्यः प्रथमो भागः ॥ મુક્તિના ઉપાયભૂત સમ્યફ શ્રદ્ધાનો ઉપસંહાર કરે છે કે મૂલ - લક્ષણ અને વિભાગપૂર્વક, શાસ્ત્ર અનુસાર, સંક્ષેપથી નિરૂપિત કરેલી, સમ્યફ શ્રદ્ધા, પંડિતોના मानंद भाटे थामी. 'सम्यक्श्रद्धेति' मा 'सभ्य' अव्यय प्रशंसावाय छे. श्रद्धामा सभ्य५५j अटो यथार्थ पहार्थनु शान છે અથવા બીજાની અપેક્ષા સિવાયની ઉત્પત્તિ છે. અથવા સર્વ દ્રવ્યપર્યાયોને વ્યાપ્ત થાય તે “સમ્યફ દ્રવ્ય અને પર્યાયરૂપ બે નયોની અપેક્ષાએ જીવ વગેરે પદાર્થો છે. ત્યાં જ્યારે દષ્ટિ પ્રવર્તે છે, ત્યારે રૂચિરૂપ શ્રદ્ધા व्याचे छ. मेथी सम्यवाय छे. સમ્યફ એવી શ્રદ્ધા-સમ્યફ શ્રદ્ધા, અવિપરીત અર્થને ગ્રહણ કરનારી રૂચિ, એવો અર્થ છે.

Loading...

Page Navigation
1 ... 807 808 809 810 811 812 813 814