________________
७४८
तत्त्वन्यायविभाकरे ૦ સિદ્ધો સદા અનાહારકો હોય છે, એવો ભાવ છે. इत्येवं चतुर्दशमूलमार्गणोत्तरभेदानाख्यायाऽऽसु सिद्धसत्ता क्वेति निरूपयति - .........
तत्र नरगतिपञ्चेन्द्रियजातित्रसकाय भव्यसंज्ञियथाख्यातक्षायिकानाहारककेवलज्ञानकेवलदर्शनेषु मोक्षो न शेषेषु ।२६।
तत्रेति । चतुर्दशमार्गणावान्तरभेदमधिकृत्येत्यर्थः । नरगतीति, अनन्तरपश्चात्कृतनयमधिकृत्य नरगतौ मुक्तिः प्राप्यते न शेषासु गतिषु, पाश्चात्यमेकान्तरं गतिविशेषमधिकृत्य पुनस्सामान्यतश्चतसृभ्योऽपि गतिभ्य आगतस्सिद्ध्यति । सिद्धप्रस्तावात्सिद्ध इत्यनुक्त्वा मोक्षपदग्रहणं कर्मक्षयसिद्धैरिहाधिकारस्तेषामेव मोक्षपर्यायेणानन्यत्वादिति सूचनाय, तेन कर्मशिल्पविद्यामन्त्रयोगागमार्थयात्राभिप्रायतपः सिद्धानां व्युदासः । अनन्तरैकान्तरपश्चात्कृतौ नयौ नैगमसङ्ग्रहव्यवहाररुपौ सकलार्थग्राहित्वात्, वर्तमानकालार्थग्रहकर्जुसूत्रशब्दसमभिरूदैवम्भूतनयरूपप्रत्युत्पन्नभावापेक्षया तु सिद्धस्सिद्धगतौ सिद्धयति । पञ्चेन्द्रियजातीति, अनन्तरपश्चात्कृतजात्यपेक्षयेदम्, नर एव सन्यतः सिद्ध्यत्यत एव पञ्चेन्द्रियजातावेवेति भावः, एकान्तरितपश्चात्कृतजात्यपेक्षया त्वन्यतमस्यां जातौ प्रत्युत्पन्नभावापेक्षया च नैकस्यामपीन्द्रियमार्गणायां सर्वथा शरीरपरित्यागेनैव सिद्धत्वपर्यायोत्पत्तेरिति भावः । त्रसकायेति, अत्रापि पूर्ववदेव भाव्यम् । भव्येति, अनन्तरैकान्तरितपश्चात्कृतनयापेक्षयेदम्, भव्यानामेव सिद्धिर्बोध्याऽभव्यानान्तु कथमपि सिद्ध्यभावात्, प्रत्युत्पन्ननयापेक्षया तु सिद्धो न भव्यो नाप्यभव्य इति । संज्ञीति, पूर्ववदेव । यथाख्यातेति, अनन्तरपश्चात्कृतनयापेक्षयेदम्, एकान्तरपश्चात्कृतनयापेक्षया तु केचित्सामायिक सूक्ष्मसम्पराययथाख्यातचारित्रिणः, केचित्सामायिकच्छेदोपस्थापनसूक्ष्मसम्पराययथाख्यातचारित्रिणः केचित्सामायिकपरिहारविशुद्धिकसूक्ष्मसम्पराययथाख्यातचारित्रिणः केचित्तु सामायिक छेदोपस्थापनीयपरिहार विशुद्धिकसूक्ष्मसम्पराययथाख्यातचारित्रिणः, तीर्थकृतस्तु सामायिक सूक्ष्मसम्पराययथाख्यातचारित्रिण एव । प्रत्युत्पन्ननयापेक्षया सिद्धो न चारित्री नाप्यचारित्रीति । क्षायिकेति, क्षायिकं द्विविधं शुद्धमशुद्धञ्च, तत्र क्षायिकी शुद्धाऽपायसद्रव्यरहिता भवस्थकेवलिना सिद्धानाञ्च शुद्धजीवस्वभावरूपा सम्यग्दृष्टिः साद्यपर्यवसाना, अशुद्धा चापाय
१. अष्टविधकर्मदहनानन्तरं सिद्धस्यैव सतस्सिद्धत्वमुपजायते नासिद्धस्य, तदात्मनो हि स्वाभाविक सत्सिद्धत्वमनादिकर्मावृतं तदावरणविगमेनाविर्भवत्येव न पनरसदपजायते न वसतः खरविषाणादेर्जन्म भवति सिद्धस्य सिद्धत्वं सद्भावरूपमुपजायते न तु प्रदीपनिर्वाणकल्पमभावरूपमिति भावः ॥२. यस्य हि सिद्धि विनी स भव्य उच्यते, सिद्धस्य तु न सा भाविनी साक्षात्सञ्जातत्वात, ततोऽसौ न भव्यो नाप्यभव्य इति भावः ॥