Book Title: Tattvanyaya Vibhakar Part 01
Author(s): Labdhisuri, Bhadrankarsuri, Vikramsenvijay
Publisher: Labdhibhuvan Jain Sahitya Sadan

View full book text
Previous | Next

Page 750
________________ सूत्र - ८, दशमः किरणः ७१३ विकलेन्द्रियाणां पञ्च संज्ञिनां षडिति बोध्याः, लब्ध्या करणेन च स्वयोग्यपर्याप्तिपूर्णताभाजस्सूक्ष्मपृथिवीकायिकाः पर्याप्तसूक्ष्मपृथिवीकायिकाः, लब्ध्या करणेन वा स्वयोग्यपर्याप्तिपूर्णताविकलास्तेऽपर्याप्तसूक्ष्मपृथिवीकायिकाः, येऽपर्याप्तका एव सन्तो म्रियन्ते ते लब्ध्यपर्याप्तकाः, ये पुनश्शरीरेन्द्रियादीनि न तावन्निवर्त्तयन्ति, अथ चावश्यं निर्वर्त्तयिष्यन्ति ते करणापर्याप्ताः, बादरपृथिवीकायिका अपि श्लक्ष्णखरभेदतो द्विविधाः, श्लक्ष्णा चूर्णितलोष्ठकल्पा मृदुपृथिवी, तदात्मकजीवा अप्युपचारेण श्लक्ष्णबादरपृथिवीकायिका उच्यन्ते ते च कृष्णनीललोहितहारिद्रशुक्लपाण्डुपानकमृत्तिकाभेदेन सप्तविधाः । देशविशेषे धूलिरूपा सती पाण्डु इति प्रसिद्धा मृत्तिका पाण्डुमृत्तिका, जीवोप्युपचारेण तादृशः, नद्यादिपूरप्लाविते देशे पूरेऽपगते भूमौ श्लक्ष्णमृदुरूपो यो जलमलापरपर्यायः पङ्कस्सा पानकमृत्तिका, उपचारात्तद्युक्तो जीवोऽपि तथा । खरबादरपृथिवीकायिकास्तु अनेकविधा अपि मुख्यतया शर्करावालुकोपलादिभेदेन चत्वारिंशद्विधाश्शास्त्रे प्रोक्तास्ते तत एवाऽवगन्तव्याः । संक्षेपतस्तु पर्याप्तापर्याप्तभेदेन द्विविधास्ते, साकल्येन पर्याप्तीविशिष्टवर्णादीन् वाऽसम्प्राप्ता अपर्याप्ताः, उच्छासापर्याप्त्यपर्याप्त्या मृतत्वेन स्पष्टतरवर्णादि विभागाप्राप्तेस्तद्विपरीतास्तु पर्याप्ताः ॥ आपः कायो येषां तेऽप्कायाः, तेऽपि सूक्ष्मबादरभेदेन द्विविधाः प्रत्येकञ्च पर्याप्तापर्याप्तभेदतो द्विविधाः । बादराप्कायिकाः करकशीतोष्णक्षारक्षत्रकट्वम्ललवणवरुणकालोदपुष्करक्षीरघृतेक्षुरसोदादयः । तेज:कायो येषां ते तेजस्कायाः, तेऽपि पूर्ववत् सूक्ष्मबादरपर्याप्तापर्याप्तभेदेन चतुविधाः । शुद्धवज्रज्वालाङ्गारविधुदुल्कामुर्मुरालातनिर्घातसंघर्षसमुत्थसूर्यकान्तमणिनिस्सृताचिरग्निप्रभृतिभेदतो बादरतेजस्काया भवन्ति । वायुःकायो येषान्ते वायुकायिकास्तेऽपि पूर्ववच्चतुर्धा । प्राचीनावाचीनोदीचीनदक्षिणोर्ध्वाधस्तिर्यग्विदिगनवस्थितोत्कलिकामण्डलिकागुञ्जाझंझासंवर्तकघनतनुशुद्धवातवातोत्कलिकावातमण्डलीभेदेन बादरवायुकायिका विज्ञेयाः । वनस्पतिः कायो येषान्ते वनस्पतिकायाः, सूक्ष्मबादरभेदभिन्नाः, पर्याप्तापर्याप्तभिन्नास्सूक्ष्मास्सर्वलोकापन्ना अचक्षुर्लाह्या अनेकाकाराश्च । बादरास्समासतो द्विविधाः प्रत्येकसाधारणभेदात्, पत्रपुष्पफलमूलस्कन्धादीन् प्रति प्रत्येकं जीवो येषान्ते प्रत्येकजीवाः, साधारणास्तु परस्परानुविद्धानन्तजीवसंघातरूपशरीरावस्थानास्तत्र प्रत्येकशरीरा वृक्षगुच्छगुल्मलतावल्लीपर्वतृणवलयहरितौषधिजलरुहकुहणेति द्वादशविधाः प्रत्येकजीवाः । सर्वेऽप्येते वनस्पतिजीवास्समासतष्षोढा भवन्ति, अग्रबीजमूलबीजपर्वबीजस्कन्धबीजबीजरुहसम्मूर्च्छनजभेदात् । अग्रबीजाः कुरण्टादयः, मूलबीजा उत्पलादयः, पर्वबीजा इक्ष्वादयः, स्कन्धबीजाः सल्लक्यादयः,

Loading...

Page Navigation
1 ... 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814