________________
सूत्र - ८, दशमः किरणः
७१३
विकलेन्द्रियाणां पञ्च संज्ञिनां षडिति बोध्याः, लब्ध्या करणेन च स्वयोग्यपर्याप्तिपूर्णताभाजस्सूक्ष्मपृथिवीकायिकाः पर्याप्तसूक्ष्मपृथिवीकायिकाः, लब्ध्या करणेन वा स्वयोग्यपर्याप्तिपूर्णताविकलास्तेऽपर्याप्तसूक्ष्मपृथिवीकायिकाः, येऽपर्याप्तका एव सन्तो म्रियन्ते ते लब्ध्यपर्याप्तकाः, ये पुनश्शरीरेन्द्रियादीनि न तावन्निवर्त्तयन्ति, अथ चावश्यं निर्वर्त्तयिष्यन्ति ते करणापर्याप्ताः, बादरपृथिवीकायिका अपि श्लक्ष्णखरभेदतो द्विविधाः, श्लक्ष्णा चूर्णितलोष्ठकल्पा मृदुपृथिवी, तदात्मकजीवा अप्युपचारेण श्लक्ष्णबादरपृथिवीकायिका उच्यन्ते ते च कृष्णनीललोहितहारिद्रशुक्लपाण्डुपानकमृत्तिकाभेदेन सप्तविधाः । देशविशेषे धूलिरूपा सती पाण्डु इति प्रसिद्धा मृत्तिका पाण्डुमृत्तिका, जीवोप्युपचारेण तादृशः, नद्यादिपूरप्लाविते देशे पूरेऽपगते भूमौ श्लक्ष्णमृदुरूपो यो जलमलापरपर्यायः पङ्कस्सा पानकमृत्तिका, उपचारात्तद्युक्तो जीवोऽपि तथा । खरबादरपृथिवीकायिकास्तु अनेकविधा अपि मुख्यतया शर्करावालुकोपलादिभेदेन चत्वारिंशद्विधाश्शास्त्रे प्रोक्तास्ते तत एवाऽवगन्तव्याः । संक्षेपतस्तु पर्याप्तापर्याप्तभेदेन द्विविधास्ते, साकल्येन पर्याप्तीविशिष्टवर्णादीन् वाऽसम्प्राप्ता अपर्याप्ताः, उच्छासापर्याप्त्यपर्याप्त्या मृतत्वेन स्पष्टतरवर्णादि विभागाप्राप्तेस्तद्विपरीतास्तु पर्याप्ताः ॥ आपः कायो येषां तेऽप्कायाः, तेऽपि सूक्ष्मबादरभेदेन द्विविधाः प्रत्येकञ्च पर्याप्तापर्याप्तभेदतो द्विविधाः । बादराप्कायिकाः करकशीतोष्णक्षारक्षत्रकट्वम्ललवणवरुणकालोदपुष्करक्षीरघृतेक्षुरसोदादयः । तेज:कायो येषां ते तेजस्कायाः, तेऽपि पूर्ववत् सूक्ष्मबादरपर्याप्तापर्याप्तभेदेन चतुविधाः । शुद्धवज्रज्वालाङ्गारविधुदुल्कामुर्मुरालातनिर्घातसंघर्षसमुत्थसूर्यकान्तमणिनिस्सृताचिरग्निप्रभृतिभेदतो बादरतेजस्काया भवन्ति । वायुःकायो येषान्ते वायुकायिकास्तेऽपि पूर्ववच्चतुर्धा । प्राचीनावाचीनोदीचीनदक्षिणोर्ध्वाधस्तिर्यग्विदिगनवस्थितोत्कलिकामण्डलिकागुञ्जाझंझासंवर्तकघनतनुशुद्धवातवातोत्कलिकावातमण्डलीभेदेन बादरवायुकायिका विज्ञेयाः । वनस्पतिः कायो येषान्ते वनस्पतिकायाः, सूक्ष्मबादरभेदभिन्नाः, पर्याप्तापर्याप्तभिन्नास्सूक्ष्मास्सर्वलोकापन्ना अचक्षुर्लाह्या अनेकाकाराश्च । बादरास्समासतो द्विविधाः प्रत्येकसाधारणभेदात्, पत्रपुष्पफलमूलस्कन्धादीन् प्रति प्रत्येकं जीवो येषान्ते प्रत्येकजीवाः, साधारणास्तु परस्परानुविद्धानन्तजीवसंघातरूपशरीरावस्थानास्तत्र प्रत्येकशरीरा वृक्षगुच्छगुल्मलतावल्लीपर्वतृणवलयहरितौषधिजलरुहकुहणेति द्वादशविधाः प्रत्येकजीवाः । सर्वेऽप्येते वनस्पतिजीवास्समासतष्षोढा भवन्ति, अग्रबीजमूलबीजपर्वबीजस्कन्धबीजबीजरुहसम्मूर्च्छनजभेदात् । अग्रबीजाः कुरण्टादयः, मूलबीजा उत्पलादयः, पर्वबीजा इक्ष्वादयः, स्कन्धबीजाः सल्लक्यादयः,