Book Title: Tattvanyaya Vibhakar Part 01
Author(s): Labdhisuri, Bhadrankarsuri, Vikramsenvijay
Publisher: Labdhibhuvan Jain Sahitya Sadan
View full book text ________________
७३८
तत्त्वन्यायविभाकरे
__ भव्येति । प्रतिपक्षतयाऽत्राभव्यस्यापि ग्रहणम् । अनादिपारिणामिकभव्यत्वाभव्यत्वयोगाज्जीवो भव्योऽभव्यश्च भवति । ननु भव्यत्वमभव्यत्वं वा जीवे कथमवगम्यत इति चेदुच्यते सिद्धिगमनयोग्योऽहं नवेति संशय एव तत्साधकः, स च संशयोऽभव्यस्य न कदाचिदपि भवति । तथा चायं भव्यस्सिद्धिगमनयोग्यत्वप्रकारकसंशयान्यथानुपपत्तेरित्यनुमानमेव मानम् । मोक्षप्रवृत्तियोग्यतावच्छेदकतया च भव्यत्वं सिद्ध्यति, तत्र योग्यतागमकस्संशय एव । संसार्येकस्वभावत्वे च कदाचिदपि कस्यचिदपि मोक्षार्थं प्रवृत्तिरेव न स्यात् । न च मोक्षप्रवृत्तियोग्यतावच्छेदकत्वं शमादिमत्त्वस्यैवेति वाच्यम्, शमादेर्मोक्षप्रवृत्त्युत्तरकालीनत्वात्, शमादेरपि कार्यतया तत्र भव्यत्वस्यैव कारणतावच्छेदकत्वप्रसङ्गे मोक्षप्रवृत्तियोग्यताया एवावच्छेदकत्वस्यौचित्यांच्च । तथा च भव्यत्वमभव्यत्वञ्च परोक्षज्ञानिनामस्मादृशामनुमानगम्यं प्रत्यक्षज्ञानिनाञ्च प्रत्यक्षं तथाऽनादिसिद्धम् । ननु भव्यत्वमविनाशि स्यात्, जीवत्ववत् स्वाभाविकत्वात्, न चैतदिष्टं, तत्सत्त्वे निर्वाणाभावात्, सिद्धो न । भव्यो नाप्यभव्य इति वचनादिति चेन्न, प्रागभावस्यानादिस्वभावत्वेऽपि घटोत्पत्तौ विनाशदर्शनात् । एवं भव्यत्वस्यापि सम्यग्दर्शनज्ञानचारित्रोपायतो नाशसम्भवे क्षत्यभावात् । न च प्रागभावस्याभावरूपतयाऽवस्तुत्वमिति न तस्योदाहरणत्वं युक्तमिति वाच्यम्, तस्य घटानुत्पत्तिविशिष्टतत्कारणभूतानादिकालप्रवृत्तपुद्गलसंघातरूपत्वेन भावत्वात् । न चैवं सति स्तोकस्तोकाकृष्यमाणधान्यस्य धान्यपूर्णकोष्ठागारस्य कदाचित्समुच्छेद इव षण्मासषण्मासपर्यन्ते भव्यस्यैकस्यावश्यं सिद्धिगमनात् क्रमेणापचीयमानस्य सर्वस्यापि भव्यराशेः कदाचिदुच्छेदप्रसङ्ग इति वाच्यम्, अनन्तत्वाद्भव्यराशेरनागतकालाकाशवत् । इह यगृहदनन्तकेनानन्तकं तत्स्तोकस्तोकतयाऽपचीयमानमपि नोच्छिद्यते, यथा प्रतिसमयं वर्तमानतापत्त्याऽपचीयमानोऽप्यनागतकालसमयराशिः, प्रतिसमयं बुद्ध्या प्रदेशापहारेणापचीयमानस्सर्वनभःप्रदेशराशिर्वा तथा भव्यराशिरपि । यस्माच्चातीतानागतकालौ तुल्यावेर्व यश्चातीतेनानन्तेनापि कालेनैक एव निगोदानन्ततमो भागोऽद्यापि भव्यानां सिद्धः, एष्यतापि कालेन तावन्मात्र एव भव्यानन्तभागस्सिद्धि गच्छन् युक्तो न हीनाधिकः, भविष्यतोऽपि कालस्यातीततुल्यत्वात् ततो न सर्वभव्यानामुच्छेदो युक्तः सर्वेणापि कालेन तदनन्तभागस्यैव सिद्धिगमनसम्भवस्योपदर्शितत्वादित्येतत्सर्वमभिप्रेत्योक्तं तत्रेति ॥
१. सर्वकालीनापेक्षयाऽत्र तुल्यत्वमुक्तं नतु विवक्षितकालापेक्षयैवेति भावः ॥
Loading... Page Navigation 1 ... 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814