Book Title: Tattvanyaya Vibhakar Part 01
Author(s): Labdhisuri, Bhadrankarsuri, Vikramsenvijay
Publisher: Labdhibhuvan Jain Sahitya Sadan

View full book text
Previous | Next

Page 759
________________ ७२२ तत्त्वन्यायविभाकरे __ मतीति । ज्ञायन्ते परिच्छिद्यन्ते अर्था अनेनास्मिन्नस्माद्वेति ज्ञानं, ज्ञानदर्शनावरणयोः क्षयः क्षयोपशमो वा, ज्ञातिर्वा ज्ञानं, आवरणद्वयक्षयाद्याविर्भूत आत्मपर्यायविशेषः, विशेषांशग्राहको ज्ञानपञ्चकाज्ञानत्रयरूपः । ननु सकलमपीदं ज्ञानं ज्ञप्त्येकस्वभावं ज्ञप्त्येकस्वभावत्वस्य सर्वत्राविशेषेण किं कृतोऽयं पञ्चधाऽष्टधा वा भेदः, न च वार्त्तमानिकं वस्तु मतेः, त्रिकालविषयः परिणामो ध्वनिगोचरः श्रुतस्य, रूपिद्रव्याण्यवधेः, मनोद्रव्याणि मनःपर्यवस्य, समस्तपर्यायान्वितं सर्वं वस्तु विषयः केवलस्येति ज्ञेयभेदस्तत्कृतो ज्ञानभेद इति वाच्यं केवलज्ञानस्य बहुभेदत्वापत्तेः, वार्त्तमानिकादिवस्तूनां तत्राऽपि ज्ञेयत्वादन्यथा तदविषयत्वे तस्य केवलिनोऽसर्वज्ञत्वापतिप्रसङ्गः, न च यादृशी प्रतिपत्तिर्मत्यादिज्ञानस्य न तादृशी श्रुतादिज्ञानस्येति प्रतिपत्तिप्रकारभेदाढ़ेद इति वाच्यम्, एकस्मिन्नपि ज्ञाने तत्तद्देशकालपुरुषस्वरूपभेदेनानन्तभेदप्रसक्तेः प्रतिपत्तिप्रकारस्यानन्त्यात् । न चावारकाणां मतिज्ञानावरणादीनां भेदाढ़ेद इति वाच्यम्, ज्ञानस्यैकत्वे आवारकाणां पञ्चधात्वानुपपत्तेः, आवार्यापेक्षं ह्यावारकं, आवार्यञ्च ज्ञानं ज्ञप्तिरूपत्वादेकमत आवारकं कथं पञ्चधा भवेत् । न च स्वभावादेव पञ्चधात्वं स्वभावे च न पर्यनुयोर्ग इति वाच्यम्, भगवतस्सर्वज्ञत्वहानिप्रसङ्गात्, ज्ञानस्यात्मधर्मत्वेन मत्यादीनां स्वाभाविकत्वेन च क्षीणावरणस्यापि तद्भावप्रसक्त्याऽस्मदादिवत्तस्यासर्वज्ञत्वं स्यात्, यदि केवलज्ञानभावतस्समस्तवस्तुपरिच्छेदान्नासर्वज्ञत्वमित्युच्यते तदापि केवलोपयोगविरहकाले मतिज्ञानोपयोगसम्भवेन देशतः परिच्छेदेन तदा तस्यासर्वज्ञत्वं बलादापतत्येव । न च तस्य तदुपयोग एव न भविष्यतीति वाच्यम्, आत्मनः स्वभावत्वेन तस्यापि क्रमेणोपयोगस्य निवारयितुमशक्यत्वात्, केवलज्ञानान्तरं केवलदर्शनोपयोगवत्, ततः केवलज्ञानोपयोगकाले सर्वज्ञत्वं मत्यादिज्ञानोपयोगकालेऽसर्वज्ञत्वमापद्यते, न चैतदिष्टं, तस्माज्ज्ञानं असकलसंज्ञितं सकलसंज्ञितमिति द्विभेदमेव, अवग्रहज्ञानादारभ्य यावदुत्कर्षप्राप्तपरमावधिज्ञानं तावत्सकलमप्येकं, तच्चासकलसंज्ञितमशेषवस्तुविषयत्वाभावात्, अपरञ्च केवलिनस्तच्च सकलसंज्ञिमिति चेदुच्यते, ज्ञानानां ज्ञप्त्येकस्वभावत्वं सामान्यतो वा विशेषतो वा भवताऽभ्युपगम्यते ? नाद्यस्सिद्धसाध्यतया तस्य बाधकत्वायोगात् बोधरूपतयाऽस्माभिरपि सकलज्ञानस्याप्येकत्वाभ्युपगमात्, नापि द्वितीयोऽसिद्धत्वात्, स्वसंवेदनप्रत्यक्षेण प्रतिप्राणि ज्ञानस्योत्कर्षापकर्षदर्शनाद्विशेषत एकत्वानुपलम्भात् । न चोत्कर्षापकर्षमात्रभेददर्शनेन यदि ज्ञानस्य भेदस्तहि २. मत्यादिज्ञानविषयजातस्य तेनाग्रहणादिति भावः ॥३. नहि कोऽप्येवं पर्यनुयुक्त कथं घट एव जलाहरणं करोति न पट इतीति भावः ॥

Loading...

Page Navigation
1 ... 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814