________________
७२२
तत्त्वन्यायविभाकरे __ मतीति । ज्ञायन्ते परिच्छिद्यन्ते अर्था अनेनास्मिन्नस्माद्वेति ज्ञानं, ज्ञानदर्शनावरणयोः क्षयः क्षयोपशमो वा, ज्ञातिर्वा ज्ञानं, आवरणद्वयक्षयाद्याविर्भूत आत्मपर्यायविशेषः, विशेषांशग्राहको ज्ञानपञ्चकाज्ञानत्रयरूपः । ननु सकलमपीदं ज्ञानं ज्ञप्त्येकस्वभावं ज्ञप्त्येकस्वभावत्वस्य सर्वत्राविशेषेण किं कृतोऽयं पञ्चधाऽष्टधा वा भेदः, न च वार्त्तमानिकं वस्तु मतेः, त्रिकालविषयः परिणामो ध्वनिगोचरः श्रुतस्य, रूपिद्रव्याण्यवधेः, मनोद्रव्याणि मनःपर्यवस्य, समस्तपर्यायान्वितं सर्वं वस्तु विषयः केवलस्येति ज्ञेयभेदस्तत्कृतो ज्ञानभेद इति वाच्यं केवलज्ञानस्य बहुभेदत्वापत्तेः, वार्त्तमानिकादिवस्तूनां तत्राऽपि ज्ञेयत्वादन्यथा तदविषयत्वे तस्य केवलिनोऽसर्वज्ञत्वापतिप्रसङ्गः, न च यादृशी प्रतिपत्तिर्मत्यादिज्ञानस्य न तादृशी श्रुतादिज्ञानस्येति प्रतिपत्तिप्रकारभेदाढ़ेद इति वाच्यम्, एकस्मिन्नपि ज्ञाने तत्तद्देशकालपुरुषस्वरूपभेदेनानन्तभेदप्रसक्तेः प्रतिपत्तिप्रकारस्यानन्त्यात् । न चावारकाणां मतिज्ञानावरणादीनां भेदाढ़ेद इति वाच्यम्, ज्ञानस्यैकत्वे आवारकाणां पञ्चधात्वानुपपत्तेः, आवार्यापेक्षं ह्यावारकं, आवार्यञ्च ज्ञानं ज्ञप्तिरूपत्वादेकमत आवारकं कथं पञ्चधा भवेत् । न च स्वभावादेव पञ्चधात्वं स्वभावे च न पर्यनुयोर्ग इति वाच्यम्, भगवतस्सर्वज्ञत्वहानिप्रसङ्गात्, ज्ञानस्यात्मधर्मत्वेन मत्यादीनां स्वाभाविकत्वेन च क्षीणावरणस्यापि तद्भावप्रसक्त्याऽस्मदादिवत्तस्यासर्वज्ञत्वं स्यात्, यदि केवलज्ञानभावतस्समस्तवस्तुपरिच्छेदान्नासर्वज्ञत्वमित्युच्यते तदापि केवलोपयोगविरहकाले मतिज्ञानोपयोगसम्भवेन देशतः परिच्छेदेन तदा तस्यासर्वज्ञत्वं बलादापतत्येव । न च तस्य तदुपयोग एव न भविष्यतीति वाच्यम्, आत्मनः स्वभावत्वेन तस्यापि क्रमेणोपयोगस्य निवारयितुमशक्यत्वात्, केवलज्ञानान्तरं केवलदर्शनोपयोगवत्, ततः केवलज्ञानोपयोगकाले सर्वज्ञत्वं मत्यादिज्ञानोपयोगकालेऽसर्वज्ञत्वमापद्यते, न चैतदिष्टं, तस्माज्ज्ञानं असकलसंज्ञितं सकलसंज्ञितमिति द्विभेदमेव, अवग्रहज्ञानादारभ्य यावदुत्कर्षप्राप्तपरमावधिज्ञानं तावत्सकलमप्येकं, तच्चासकलसंज्ञितमशेषवस्तुविषयत्वाभावात्, अपरञ्च केवलिनस्तच्च सकलसंज्ञिमिति
चेदुच्यते, ज्ञानानां ज्ञप्त्येकस्वभावत्वं सामान्यतो वा विशेषतो वा भवताऽभ्युपगम्यते ? नाद्यस्सिद्धसाध्यतया तस्य बाधकत्वायोगात् बोधरूपतयाऽस्माभिरपि सकलज्ञानस्याप्येकत्वाभ्युपगमात्, नापि द्वितीयोऽसिद्धत्वात्, स्वसंवेदनप्रत्यक्षेण प्रतिप्राणि ज्ञानस्योत्कर्षापकर्षदर्शनाद्विशेषत एकत्वानुपलम्भात् । न चोत्कर्षापकर्षमात्रभेददर्शनेन यदि ज्ञानस्य भेदस्तहि
२. मत्यादिज्ञानविषयजातस्य तेनाग्रहणादिति भावः ॥३. नहि कोऽप्येवं पर्यनुयुक्त कथं घट एव जलाहरणं करोति न पट इतीति भावः ॥