________________
७२३
सूत्र - १२, दशमः किरणः प्रतिप्राणि देशकालापेक्षयोत्कर्षापकर्षयोरनेकविधत्वेन ज्ञानस्यानेकविधत्वमेव प्राप्तं न तु पञ्चविधत्वमिति वाच्यम्, परिस्थूलनिमित्तभेदतः पञ्चधात्वस्य प्रतिपादनात् । तथाहि सकलघातिक्षयो निमित्तं केवलज्ञानस्य, मनःपर्यवज्ञानस्य त्वमर्पोषध्यादिलब्ध्युपेतस्य प्रमादलेशेनाप्यकलङ्कितस्य विशिष्टाध्यवसायानुगतोऽप्रमादः, अवधिज्ञानस्य पुनस्तथाविधानिन्द्रियरूपिद्रव्यसाक्षादवगमननिबन्धनः क्षयोपशमविशेषः, मतिश्रुतयोस्तु लक्षणभेद इति । ज्ञेयभेदमात्रतो ज्ञानस्य भेदानभ्युपगमान्न तत्पक्षोक्तदोषः, एकेनाप्यवग्रहादिना बहुविधवस्तुग्रहणोपलम्भात् । नापि प्रतिपत्तिप्रकारभेदकृतो दोषस्सम्भवति देशकालाद्यपेक्षया ज्ञानानामानन्त्येऽपि परिस्थूलनिमित्तभेदेन व्यवस्थापितज्ञानपञ्चकेभ्योऽनतिरिक्तत्वात् तज्जातीयत्वानतिक्रमणात् । परिस्थूलनिमित्तभेदमधिकृत्य ज्ञानानां भेदव्यवस्थापनाच्च नावरणभेदप्रयुक्तदोषस्यावकाश इति । न चैवं व्यवस्थापिता ज्ञानभेदा ज्ञानस्यात्मभूता अनात्मभूता वा, आत्मभूतत्वे क्षीणावरणेऽपि तद्भावप्रसङ्गः, अनात्मभूतत्वे न ते पारमाथिकाः, ततः कथमावार्यापेक्षो वास्तव आवारकभेद इति वाच्यम्, वस्तुतत्त्वापरिज्ञानात् । इह हि सकलघनपटलविनिर्मुक्तशारददिनमणिरिव समन्ततस्समस्तवस्तुस्तोमप्रकाशनैकस्वभावो जीवः, तस्य च तथाभूतस्वभावः केवलज्ञानमिति व्यपदिश्यते । स च यद्यपि सर्वघातिना केवलज्ञानावरणेनावियते तथापि तस्यानन्ततमो भागो नित्योद्घाटित एव । ततस्तस्य केवलज्ञानावरणावृतस्य घनपटलाच्छादितस्येव सूर्यस्य यो मन्दप्रकाशस्सोऽपान्तरालावस्थितमतिज्ञानाद्यावरणक्षयोपशमभेदसम्पादितं नानात्वं भजते मतिज्ञानावरणक्षयोपशमजनितो मन्दप्रकाशो मतिज्ञानं, श्रुतज्ञानावरणक्षयोपशमजनितस्स श्रुतज्ञानमित्यादिरूपेण । तत आत्मस्वभावभूता मत्यादयो भेदाः, ते च प्रवचनोपदर्शितपरिस्थूलनिमित्तभेदतः पञ्चसंख्याः, तदपेक्षमावारकमपि पञ्चधेति न विरुद्ध्यते । न चैवमात्मस्वभावभूतत्वे क्षीणावरणस्यापि तद्भावप्रसङ्गः, यत एते मतिज्ञानावरणादिक्षयोपशमरूपोपाधिसम्पादितसत्ताकास्ततः कथं ते तथारूपक्षयोपशमाभावे भवितुमर्हन्ति, नहि सूर्यस्य घनपटलावृतस्य मन्दः प्रकाशः कटकुड्याद्यावरणविवरभेदोपाधिसम्पादितस्सकलघनपटलकटकुड्याद्यावरणापगमे सूर्यस्य ते तथारूपा मन्दप्रकाशभेदा भवन्ति । यथा वा जन्मादयो भावा जीवस्यात्मभूता अपि कर्मोपाधिसम्पादितसत्ताकत्वात्तदभावे न सन्ति तद्वन्मत्यादयो भेदा जीवस्यात्मभूता-अपि मतिज्ञानावरणादिक्षयोपशमसापेक्षत्वात्तदभावे केवलिनो न भवन्ति ततो नासर्वज्ञत्वदोषः । यदपि मतिज्ञानादिविषयस्य केवलज्ञानाविषयत्वेऽसर्वज्ञत्वापत्तिरुक्ता सापि न सम्भवति, तद्विषयत्वेन तस्याग्रहेऽपि केवलज्ञानेन तद्ग्रहणात्, मत्यादिज्ञानमात्रनिरूपितत्वेन