________________
तत्त्वन्यायविभाकरे
७२४
भावः,
ज्ञेयतायाः, केवलज्ञानस्याभावेऽपि न तावताऽसर्वज्ञत्वापत्तिः, अल्पास्पष्टज्ञानाभावमात्रेण सर्वज्ञत्वाक्षतेः, कापर्दिकमात्रधनाभाववतोमहर्द्धिकस्य निर्धनित्वाभाववदिति दिक् ॥ मत्यादिज्ञानलक्षणादीन्यग्रे वक्ष्यन्ते ॥ ननु किं सर्वेषामेव जीवानां ज्ञानानि मत्यादीनि भवन्तीत्यत्राह मिथ्यादृष्टीनामिति । मिथ्यादृष्टीनां मतिज्ञानं श्रुतज्ञानमवधिज्ञानञ्च मत्यज्ञानं श्रुताज्ञानं विभङ्गज्ञानमित्युच्यते विपर्ययत्वात् प्रमाणाभासत्वेन तेषां ज्ञानान्यज्ञनानि, दर्शनमोहनीयोदयप्रयुक्तमिथ्यादर्शनपरिणामेन सह वृत्तित्वान्मतिश्रुतावधयोऽज्ञानत्वं भजन्ते । ननु यथार्थपरिच्छेदित्वं ज्ञानत्वमयथार्थपरिच्छेदित्वमज्ञाननत्वं तदुभयं च मिथोविरोधि, शीतोष्णवत् तत्कथमेकस्मिन्नेव मतिज्ञानादौ तदुभयसम्भवः, मैवमाधारदोषात् दृश्यते हि कटुकालाबूभाजने निहितं दुग्धं स्वगुणं परित्यजति तथा मत्यादीन्यपि मिथ्यादृष्टिभाजनगतानि दुःष्यन्ति पारिणमिकशक्तिविशेषात् न च रूपादिविषयोपलब्धिव्यभिचाराभावात्तेषां विपर्ययायथैव हि मतिज्ञानेन सम्यग्दृष्टयो रूपादीनुपलभन्ते तथैव मिथ्यादृष्टयोऽपि मतिज्ञानेन, यथैव घटादिषु रूपादीन् श्रुतेन निश्चिन्वन्त्युपदिशन्ति च परेभ्यस्सम्यग्दृष्टयस्तथा मिथ्यादृष्टयोऽपि श्रुतज्ञानेन, यथैवावधिना रूपिणोऽर्थानवगच्छन्ति तथैव विभङ्गेनापीति वाच्यम् । विद्यमानाविद्यमानार्थयोर्यथावदवबोधाभावेन तादृशोपलब्धेर्यादृच्छिकत्वात्, उन्मत्तोपलब्धिवत् । उन्मत्तो हि दोषोदयात्कदाचिल्लोष्ठं सुवर्णमिति सुवर्णं लोष्ठमिति जानाति कदाचिच्च लोष्ठं लोष्ठमिति सुवर्णं सुवर्णमिति च, तथैव मिथ्यादर्शनोदयात् वस्तुनोऽनेकान्तात्मकस्यैकान्तात्मकत्वं कर्तृरहितं जगत्सकर्तृकञ्च जानात्यतो यथार्थबोधाभावेन कदाचित्तस्योपलब्धेर्यथार्थरूपादिविषयकत्वेऽपि अज्ञानमेवेति भावः । एवन्तर्ह्यष्टविधत्वं ज्ञानानामत्र कथमुक्तमित्यत्राहात्रेति मार्गणाप्रकरण इत्यर्थः । पञ्चविधत्वेऽपि ज्ञानानामिति । शब्दनयमते सर्वजीवानां चेतना - स्वभावत्वात् ज्ञस्वभावत्वाच्च न कश्चिन्मिथ्यादृष्टिरज्ञो वा जीवो विद्यते, अत एव मत्यज्ञानादयो विपर्यया न सन्ति तस्मात्पञ्चविधत्वमेव ज्ञानानां तन्मतेनेति भावः । नैगमादिनयेन तु मत्यज्ञानादीनामप्यर्थपरिच्छेदकत्वेन ज्ञानत्वात्तन्मताश्रयेणात्र ज्ञानानामष्टविधत्वमुक्तमित्याशयेनाहान्वेषणाप्रस्ताव इति । आद्यत्रयेति मतिश्रुतावधीत्यर्थः । ज्ञानत्वेन ग्रहणादिति, अर्थपरिच्छेदित्वादिति भावः । ननु ज्ञानादिषु किमर्थमज्ञानादिविपरीतग्रहणमिति चेदुच्यते चतुर्दशस्वपि मार्गणास्थानेषु प्रत्येकं सर्वसंसारिकसत्त्वसंग्रहार्थमितीत्याशयेन बोध्यमित्युक्तम् । मनःपर्यवकेवलयोर्विपरीतताऽस्ति नवेत्यत्राह मन इति । निर्मूलतो मिथ्यात्वस्य क्षयेण केवलस्य क्षयोपशमोपशमाभ्याञ्च मनः पर्यवस्य जायमानत्वादिति भावः । विपरीतानामपि