Book Title: Tattvanyaya Vibhakar Part 01
Author(s): Labdhisuri, Bhadrankarsuri, Vikramsenvijay
Publisher: Labdhibhuvan Jain Sahitya Sadan

View full book text
Previous | Next

Page 692
________________ सूत्र - २३, नवमः किरणः ध्रुवत्वमध्रुवत्वञ्च । वेदनीयमोहनीययोश्चतुर्विधत्वमपि । तत्र ज्ञानावरणदर्शनावरणान्तरायाणां यावत्क्षीणमोहगुणस्थानकस्य समयाधिकावलिकाशेषो न भवति तावत्सर्वजीवानामुदीरणाया अवश्यंभावेन, नामगोत्रयोश्च यावत्सयोगिचरमसमयं तावत्सर्वेषामवश्यंभावेनानादित्वं, ध्रुवत्वमभव्यापेक्षयाऽध्रुवत्वञ्च भव्यापेक्षयेति । वेदनीयस्य यावत्प्रमत्तगुणस्थानकं मोहनीयस्य सूक्ष्मसम्परायगुणस्थानकं यावदुदीरणाया भावेनाप्रमत्तादिगुणस्थानकेभ्यः प्रतिपततो वेदनीयस्योपशान्तमोहगुणस्थानकाच्च प्रतिपततो मोहनीयस्योदीरणायास्सादित्वं, तत्स्थानमप्राप्तस्यानादित्वं, ध्रुवत्वाध्रुवत्वे पूर्ववत् । आयुरुदीरणायास्सादित्वमध्रुवत्वञ्च । पर्यन्तावलिकायामायुषो नियमेनोदीरणाया अभावादध्रुवत्वं पुनरपि भवोत्पत्तिप्रथमसमये प्रवर्त्तमानत्वाच्च सादित्वं । उतरप्रकृतीनान्तु कर्मप्रकृत्यादिभ्यो ज्ञातव्याः । ज्ञानावरणदर्शनावरणान्तरायाणां क्षीणमोहान्तास्सर्वेप्युदीरका: । मोहनीयस्य सूक्ष्मसम्पारायान्ता उदीरकाः । वेदनीयस्य प्रमत्तगुणस्थानकपर्यन्तास्सर्वेऽप्युदीरकाः । आयुषोऽचरमावलिकप्रमत्तान्ता उदीरकाः, नामगोत्रयोस्तु सयोगिकेवलिपर्यवसानास्सर्वेऽप्युदीरका इति । अधिकमन्यत्र द्रष्टव्यम् । तथा ज्ञानावरणवेदनीयायुर्गोत्रान्तरायाणामेकैकमुदीरणास्थानं, यथा ज्ञानावरणान्तराययोः पञ्चप्रकृत्यात्मकमेकैकं, वेदनीयायुर्गोत्राणां वेद्यमानैकप्रकृत्यात्मकं नैतासां द्वित्र्यादिकाः प्रकृतयो युगपदुदीर्यन्ते युगपदुदयाभावात् । दर्शनावरणीये चक्षुर्दर्शनावरणादीनां पञ्चानां चतसृणां वा प्रकृतीनां युगपदुदीरणा भवति । मोहनीये एकस्या द्वयोश्चतसृणां पञ्चानां षण्णामष्टानां नवानां दशानां वा । नामकर्मणो दशोदीरणास्थानानि एकचत्वारिंशत्-द्विचत्वारिंशत्-पञ्चाशत्एकपञ्चाशत्-द्विपञ्चाशत्-त्रिपञ्चाशत्-चतुःपञ्चाशत् पञ्चपञ्चाशत्-षट्पञ्चाशत्-सप्तपञ्चाशच्चेति । विशेषस्त्वन्यतो द्रष्टव्य इत प्रकृत्युदीरणा । स्थित्युदीरणायां प्रथमं लक्षणमुच्यते, उदयो द्विविधः, सम्प्राप्त्यसम्प्राप्तिभेदात् कालक्रमेण कर्मदलिकस्योदयहेतुद्रव्यक्षेत्रादिसामग्रीसम्प्राप्तौ य उदयस्स सम्प्राप्त्युदयः, अकालप्राप्तं कर्मदलिकमुदीरणाप्रयोगेण वीर्यविशेषसंज्ञितेन समाकृष्य कालप्राप्तेन दलिकेन सहानुभूयते सोऽसम्प्राप्त्युदयः, तथाचासम्प्राप्त्युदय एवोदीरणा या स्थितिरप्राप्तकालापि सती उदीरणाप्रयोगेण सम्प्राप्त्युदये प्रक्षिप्ता दृश्यते केवलचक्षुषा सा स्थित्युदीरणेति । भेदादिकमन्यतो द्रष्टव्यम् । अनुभागोदीरणायां संज्ञाद्विभेदा, स्थानघातिभेदात् स्थानं चतुर्विधं एकद्वित्रिचतुस्स्थानभेदात् एतच्च पूर्वमुपदर्शितम् घातिसंज्ञा तु सर्वघातिदेशघात्यघातिभेदतस्त्रिविधा । तथा शुभकर्मणामनुभागः क्षीरखण्डरसोपमः, अशुभ १. वेदनीयायुर्गोत्रप्रकृतीनामित्यर्थः । ६५५

Loading...

Page Navigation
1 ... 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814