________________
सूत्र - २३, नवमः किरणः
ध्रुवत्वमध्रुवत्वञ्च । वेदनीयमोहनीययोश्चतुर्विधत्वमपि । तत्र ज्ञानावरणदर्शनावरणान्तरायाणां यावत्क्षीणमोहगुणस्थानकस्य समयाधिकावलिकाशेषो न भवति तावत्सर्वजीवानामुदीरणाया अवश्यंभावेन, नामगोत्रयोश्च यावत्सयोगिचरमसमयं तावत्सर्वेषामवश्यंभावेनानादित्वं, ध्रुवत्वमभव्यापेक्षयाऽध्रुवत्वञ्च भव्यापेक्षयेति । वेदनीयस्य यावत्प्रमत्तगुणस्थानकं मोहनीयस्य सूक्ष्मसम्परायगुणस्थानकं यावदुदीरणाया भावेनाप्रमत्तादिगुणस्थानकेभ्यः प्रतिपततो वेदनीयस्योपशान्तमोहगुणस्थानकाच्च प्रतिपततो मोहनीयस्योदीरणायास्सादित्वं, तत्स्थानमप्राप्तस्यानादित्वं, ध्रुवत्वाध्रुवत्वे पूर्ववत् । आयुरुदीरणायास्सादित्वमध्रुवत्वञ्च । पर्यन्तावलिकायामायुषो नियमेनोदीरणाया अभावादध्रुवत्वं पुनरपि भवोत्पत्तिप्रथमसमये प्रवर्त्तमानत्वाच्च सादित्वं । उतरप्रकृतीनान्तु कर्मप्रकृत्यादिभ्यो ज्ञातव्याः । ज्ञानावरणदर्शनावरणान्तरायाणां क्षीणमोहान्तास्सर्वेप्युदीरका: । मोहनीयस्य सूक्ष्मसम्पारायान्ता उदीरकाः । वेदनीयस्य प्रमत्तगुणस्थानकपर्यन्तास्सर्वेऽप्युदीरकाः । आयुषोऽचरमावलिकप्रमत्तान्ता उदीरकाः, नामगोत्रयोस्तु सयोगिकेवलिपर्यवसानास्सर्वेऽप्युदीरका इति । अधिकमन्यत्र द्रष्टव्यम् । तथा ज्ञानावरणवेदनीयायुर्गोत्रान्तरायाणामेकैकमुदीरणास्थानं, यथा ज्ञानावरणान्तराययोः पञ्चप्रकृत्यात्मकमेकैकं, वेदनीयायुर्गोत्राणां वेद्यमानैकप्रकृत्यात्मकं नैतासां द्वित्र्यादिकाः प्रकृतयो युगपदुदीर्यन्ते युगपदुदयाभावात् । दर्शनावरणीये चक्षुर्दर्शनावरणादीनां पञ्चानां चतसृणां वा प्रकृतीनां युगपदुदीरणा भवति । मोहनीये एकस्या द्वयोश्चतसृणां पञ्चानां षण्णामष्टानां नवानां दशानां वा । नामकर्मणो दशोदीरणास्थानानि एकचत्वारिंशत्-द्विचत्वारिंशत्-पञ्चाशत्एकपञ्चाशत्-द्विपञ्चाशत्-त्रिपञ्चाशत्-चतुःपञ्चाशत् पञ्चपञ्चाशत्-षट्पञ्चाशत्-सप्तपञ्चाशच्चेति । विशेषस्त्वन्यतो द्रष्टव्य इत प्रकृत्युदीरणा । स्थित्युदीरणायां प्रथमं लक्षणमुच्यते, उदयो द्विविधः, सम्प्राप्त्यसम्प्राप्तिभेदात् कालक्रमेण कर्मदलिकस्योदयहेतुद्रव्यक्षेत्रादिसामग्रीसम्प्राप्तौ य उदयस्स सम्प्राप्त्युदयः, अकालप्राप्तं कर्मदलिकमुदीरणाप्रयोगेण वीर्यविशेषसंज्ञितेन समाकृष्य कालप्राप्तेन दलिकेन सहानुभूयते सोऽसम्प्राप्त्युदयः, तथाचासम्प्राप्त्युदय एवोदीरणा या स्थितिरप्राप्तकालापि सती उदीरणाप्रयोगेण सम्प्राप्त्युदये प्रक्षिप्ता दृश्यते केवलचक्षुषा सा स्थित्युदीरणेति । भेदादिकमन्यतो द्रष्टव्यम् । अनुभागोदीरणायां संज्ञाद्विभेदा, स्थानघातिभेदात् स्थानं चतुर्विधं एकद्वित्रिचतुस्स्थानभेदात् एतच्च पूर्वमुपदर्शितम् घातिसंज्ञा तु सर्वघातिदेशघात्यघातिभेदतस्त्रिविधा । तथा शुभकर्मणामनुभागः क्षीरखण्डरसोपमः, अशुभ
१. वेदनीयायुर्गोत्रप्रकृतीनामित्यर्थः ।
६५५